Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 501
________________ ४८२ क्लृप्तं संस्कृतवाङ्मये तनुधिया पूतं चरित्रं गुरोः ॥४२३॥ वसन्ततिलका - श्रीपादलिप्तनगरे नगरप्रसिद्धे, शत्रुंजयस्थितयुगादिजिनेशपूते । चारित्रशुद्धवरसाधुसमूहवित्ते, पूजामहोत्सवनिरन्तरवाद्यघोषे ॥ ४२४ ॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी ख- ख-ख- सहितयुग्मे' वैक्रमीये सुवर्षे, फलदसितसुपक्षे माधवा च मासे । सकलतिथिवरेण्ये पूर्णिमायां तिथौ वै, वसन्ततिलका परमगुरुचरित्रं पूर्णितं तत् पवित्रम् ॥४२५॥ ( युग्मम् ) - साहाय्यकं कृति - विशोधनकादिकार्ये दत्तं हि येन विदुषा बहुलं कृतेऽस्मिन् । अत्रत्यपण्डितवराऽमृतलालनाम्ना, तस्योपकारमपि नित्यमहं स्मरामि ॥४२६ ॥ अस्यां कृतौ च यदि मे स्खलनं प्रजातं, क्षम्यं सदा गुणगणग्रहणैकधीभिः विज्ञैय सत्कविपरिश्रमवेदिभिर्यत्, सर्वत्र चाऽस्खलितवाग् जिननाथ एव ॥४२७॥ उत्तरार्द्ध समाप्तम् । १. २००० संवत्सरे । २. वैशाखमासे ।

Loading...

Page Navigation
1 ... 499 500 501 502