________________
४८२
क्लृप्तं संस्कृतवाङ्मये तनुधिया पूतं चरित्रं गुरोः ॥४२३॥
वसन्ततिलका
-
श्रीपादलिप्तनगरे नगरप्रसिद्धे, शत्रुंजयस्थितयुगादिजिनेशपूते । चारित्रशुद्धवरसाधुसमूहवित्ते, पूजामहोत्सवनिरन्तरवाद्यघोषे ॥ ४२४ ॥
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
मालिनी ख- ख-ख- सहितयुग्मे' वैक्रमीये सुवर्षे, फलदसितसुपक्षे माधवा च मासे । सकलतिथिवरेण्ये पूर्णिमायां तिथौ वै,
वसन्ततिलका
परमगुरुचरित्रं पूर्णितं तत् पवित्रम् ॥४२५॥ ( युग्मम् )
-
साहाय्यकं कृति - विशोधनकादिकार्ये
दत्तं हि येन विदुषा बहुलं कृतेऽस्मिन् ।
अत्रत्यपण्डितवराऽमृतलालनाम्ना,
तस्योपकारमपि नित्यमहं स्मरामि ॥४२६ ॥
अस्यां कृतौ च यदि मे स्खलनं प्रजातं, क्षम्यं सदा गुणगणग्रहणैकधीभिः विज्ञैय सत्कविपरिश्रमवेदिभिर्यत्,
सर्वत्र चाऽस्खलितवाग् जिननाथ एव ॥४२७॥ उत्तरार्द्ध समाप्तम् ।
१. २००० संवत्सरे । २. वैशाखमासे ।