Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 486
________________ ४६७ चित्तोडतीर्थ प्रतिष्ठाकृते मतान्तरम् । अहम्मदावादपुरे तदेते, न्यवेदयन् वृत्तमिदं च तूर्णम् ॥३४९॥ तदैव चैतन्नगराधिवासी, श्रीमच्चुनीलालतनूजवर्यः । श्रेष्ठी भगूभाइशुभाभिधेयो, ज्योतिर्विदं विज्ञवरं ह्यपृच्छत् ॥३५०॥ चित्तोडदुर्गस्थितमन्दिरेषु, शुभप्रतिष्ठाकरणाय विद्वन् ! । वैशाखमासे सुमुहूर्तमस्मि नागच्छति वा न वदेति तथ्यम् ॥३५१॥ निरूप्य शास्त्राणि मुहूर्तकानां, न्यगादि दैवज्ञवरेण तेन । संवत्सरेऽस्मिन् वरमाघमासे, शुक्लद्वितीयैव वरं मुहूर्तम् ॥३५२॥ वृत्तान्तमेतं ह्युदपादिपुर्या, न्यवेदयत् सूतरियोपनामा । धीमद्भगूभाइधनीशवर्यः, श्रीसंघपार्श्वे विनयेन तूर्णम् ॥३५३॥ तथा न्यवेदीद्धनिकः स श्राद्धः, सूरीश्वरेणाऽपि निवेदितं प्राक् । अतो मुहूर्तं शुभदं हि माघ शुक्लद्वितीयैव सुनिश्चिताऽस्तु ॥३५४॥

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502