Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala
View full book text
________________
४७१
चित्तोडगढतीर्थ प्रतिष्ठा महोत्सवः । उपजाति: - तेनाऽतिभव्यो जलयात्रिको वै,
निष्काशितः सद्वरघोटकोऽत्र । परःसहस्त्रे जनतासमूह,
ध्वजा-पताकादिविराजितोऽसौ ॥३७०॥ (युग्मम्) तस्मिन् वरेण्ये वरघोटके वै,
पञ्चाङ्कयुक्ता मदहस्तिराजाः । त्रिसंख्यकानि श्रुतिसौख्यदानि,
बेण्डानि चाऽऽसन्नतिसुस्वराणि ॥३७१॥ तथा करेडाभिधतीर्थकीयो,
रथोऽत्र रौप्यो बहुमूल्यरम्यः । तथा महोच्चो ध्वजदण्ड आसीत्,
तैरस्य शोभा ह्यतिदर्शनीया ॥३७२॥ तथैव राज्ञा स्वपुरस्थितानि,
___ साहाय्यके भूरिसुसाधनानि । दत्तानि तस्माद्वरघोटकेऽस्मि
नभूतपूर्वाऽभवदत्र शोभा ॥३७३॥ श्रीपौषमासस्य च कृष्णपक्षे,
एकादशीपुण्यतिथौ तदानीम् । हीरादिलालाभिध इभ्यवर्यः,
सीरोडियोपाह्व-जिनेशभक्तः ॥३७४॥ त्रयोदशीनामतिथौ तथैव____महम्मदावादपुराधिवासी ।

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502