Book Title: Vastusar Ratnapal Charitre
Author(s): Mithabhai Kalyanchandra Jain S Samstha
Publisher: Mithabhai Kalyanchandra Jain S Samstha

View full book text
Previous | Next

Page 5
________________ श्रीवस्तुसारचरित्रम् समणस्स भगवओ महावीरस्स अनन्तलब्धिनिधानाय श्रीगौतमस्वामिने नमः आगमोद्धारक श्रीमदानन्दसागरसूरीश्वरेभ्यो नमः ॥ श्रीवस्तुसारचरित्रम् ॥ aperpecameriClocaCCIReace ज्ञातान्वये महादीपं, तीर्थनाथमपश्चिमम् । भव्यानां हितबोधाय, सुष्ठुधर्मोपदेशकम् ।। १॥ बाल्येऽप्यमरनाथस्य, संदेहोच्छेदकारिणम् । धीरतायाः महागारं, संगमे करूणाकरम् ॥ २ ॥ श्रीगौतमादिविप्राणां सद्वेदार्थप्रकाशकम् । अपूर्वज्ञानदातारं, नौमि तं ज्ञातनन्दनम् ॥ ३ ॥ (त्रिभिर्विशषकम् ) गौतमादिगणाधीशान् , एकादश मुनीश्वरान् । सार्वान् गणधरांस्तांश्च, वन्देहं शुभभावतः ॥४॥ स्तौमि स्वपरशास्त्रज्ञ, आगमद्युतिधारकम् । आगमज्ञानदातारं, सूरिमानन्दसागरम् ॥ ५॥ पंचाचारेऽनिशं रक्तं, दान्तं सद्भावधारकम् । सदानन्देन वक्तारं, वन्दे क्षमाब्धिपाठकम् ॥ ६ ॥ नत्वा देवगुरुन् सर्वान् , वन्दित्वा जिनभारतीम् । चरित्रं वस्तुसारस्य, लिखामि देवभाषया, ॥ ७ ॥ शान्तिपुराभिधे ग्रामे, जिनप्रासादमण्डिते । शत्रुर्मदनराजाऽस्ति, स्तोकभूमिप्रशासकः ॥८॥ |N तस्य पुरोहितो विश्वभूतिर्नाम महाबुधः । सर्वकार्येषु दक्षो यः, राजनीतिविचक्षणः ॥ ९॥ निर्मला तस्य भार्याऽभूत् , शीलालङ्कारशोभिता । वस्तुसारस्तयोः पुत्रः, प्राणप्रियः सुलक्षणः ॥ १० ॥ पाठयति पिता पुत्रं, सदा शास्त्राण्यनेकशः । ऋते पितुश्च को दाता, बालेभ्यो हितशिक्षणम् ॥ ११ ॥ एवं तु दशमे वर्षे, दुर्भाग्याशनिपाततः । विश्वभूतिस्तदाधारः, कथाशेषत्वमासदत् ॥ १२ ॥ वस्तुसारं सुशास्त्राणि, पाठयेत् को विना पितुः । एवं गतेषु कालेषु, षोडशवर्षकोऽभवत् ।।१३।। इतः शान्तिपुरासन्ने, गते क्रोशे च पंचषे । Devrexpereelcrezmeerence

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26