Book Title: Vastusar Ratnapal Charitre
Author(s): Mithabhai Kalyanchandra Jain S Samstha
Publisher: Mithabhai Kalyanchandra Jain S Samstha

View full book text
Previous | Next

Page 15
________________ श्रीरत्नपाल चरित्रम् Deepercedee रहस्येवं, पूर्णचन्द्रस्य ईर्षया ॥ ३४ ॥ भोश्चन्द्र ! श्रुणु मे वाता, श्रेष्ठी चासौ पिता तव । करोति ते न सम्बन्धं, तत्र किं कारणं वद ॥ ३५ ॥ कान्तिचन्द्रस्य सम्बन्धो, राजचन्द्रगृहे कृतः। देवदत्तस्य लग्नं तु, कृतं महोत्सवेन वै ॥ ३६ ॥ सम्बधो विहितोऽन्येषां, क्रियते किं न ते पुनः । चन्द्रो जगाद हे तात् !, पृच्छायां कारणं वद ॥ ३७॥ चिन्तेयं मम तातस्य, कि पृच्छति भवान् पुनः। मम कायें विलंम्बोऽभूत्, गच्छामि त्वरितश्च भोः ॥ ३८॥ प्रोवाच भानुचन्द्रस्ते, लग्नं सो न विधास्यति । चेन्मयि प्रत्ययो न स्यात्, पृच्छेस्त्वं श्रेष्ठिनं निजम् ॥ ३९ ॥ अथैकदा च स श्रेष्ठी, सान्ध्यं कृत्यं समाप्य च । स्वकुटुम्ब समाहूय, करोति स्म कथादिकम् ॥४०॥ तस्मिन्नवसरे चन्द्रः, पृच्छति श्रेष्ठिनं प्रति । यौवनस्थस्य मे लग्नं, विधास्यति कदा भवान् ॥४॥? श्रेष्ठी जगौ न पृष्टोऽयं, विषयस्तु कदा त्वया । अद्यैव पृच्छसि तत्र, किमस्ति कारणं वद ॥४२॥ चन्द्रो बभाण भो तात !, विना लग्न तु जीवनम् । निरर्थकं भवेन्नूनं, विवाहः क्रियते ततः ॥ ४३ ॥ श्रेष्ठो जगाद भोश्चन्द्र !, न स्याल्लग्नं धनं विना । तव पाचँ तु नो द्रव्यं, तस्माद् द्रव्यं समाजय ॥४४॥ पितस्त्वं किं वदस्येवं, देवक्तादिभिर्यतः। किं समुपार्जितं द्रव्यं ?, तेषां लग्नं कृतं त्वया ॥ ४५ ॥ एते हि सन्ति मत्पुत्राः, धनञ्जयसुतोऽसि नु। तव लग्नादिकार्याथ, करोमि न धनव्ययम् ॥ ४६॥ मृतौ ते पितरौ बाल्ये, मयानुकंपया तदा । सद्मनि त्वं समादाय, पालितो यत्नतः सदा ॥ ४७ ॥ पालनेन पिताऽहं तु, जन्मदानेन नो खलु । तस्माद्विवाहकार्याथ, नो यतिष्ये कदाचन ॥४८॥ द्वितीयेऽहनि चन्द्रोऽथ, भानुचन्द्रं व्यजिज्ञपत् । स श्रेष्ठी मम लग्नं न, करोति द्रविणं विना ॥ ४९ ॥ तस्मात् त्वमेव हे तात !, लग्नादिकं च कारय । त्वयैव कथितं कार्य, त्वमेव परिसाधय ॥ ५० ॥ बभाषे भानुचन्द्रोऽथ, भवेल्लमं सुखावहम् । जघन्येनापि ते पार्चे, द्विसहस्रं धनं यदि ।। ५१ ।। उवाच मानचन्द्रोऽथ, पार्श्व नास्ति कपर्दिका । कथं वार्ता सहस्रस्य, द्वयस्य क्रियते त्वया ॥५२॥ भानुर्जगी विना द्रव्यं, लग्नादिकं कथं भवेत् । दुव्यार्जनाय भोश्चन्द्र, उद्यम कुरु यत्नतः ॥५३॥ चन्द्रः प्राह न जानामि, द्रव्यार्जनं कथं भवेत् । ततस्त्वं कथयोपायं, येनाहं स्यां सुखं धनी ॥५४॥ पूर्व सूर्योदयात्त्वं तु, याहि वनमहर्निशम् । काष्ठभारं समानीय, विक्रीणीथाः पुरे सदा ॥ ५५ ॥ लप्स्यसे रुप्यकाध यद्, एवं screepeecemberERecipperzee ॥ "

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26