Book Title: Vastusar Ratnapal Charitre
Author(s): Mithabhai Kalyanchandra Jain S Samstha
Publisher: Mithabhai Kalyanchandra Jain S Samstha
View full book text ________________
श्रीरत्नपालचरित्रम्
॥१९॥
CRECRemezocPEOPomeonePepe
जाते, पुत्रपुत्र्यादिकं नहि ॥ २०५ ॥ अहर्निशं तु चिन्तायां, मे मनो बहु मुह्यति । सन्ततिवर्जिते पल्यौ, कुरुतः कलहं सदा ॥२०६।। गच्छ लक्ष्मीपुरे त्वं तु, लाभचन्द्राभिधान्तिके । श्रेष्ठिनं तत्र गत्वा च, सुखं पृच्छतु लीलया ॥ २०७ ॥ लाभः प्राहागतं चन्द्रं, नाहं सुखी कदाचन । रक्षितं बहुलोकानां, द्रविणं तु गृहे मया ॥२०८॥ धनं दत्तं तु लोकानां, व्याजाशया मया मुदा । विद्यते न गृहे किश्चित् , तेन चिन्तातिवर्तते, ॥२०९।। भोजनं न मुखे याति, निद्रा दूरे गतास्ति मे । पुत्रादिका न मन्यन्ते, नास्ति सुखलवो मम ॥२१०॥ मादृशं तु सुखं चन्द्र!, मा याचस्व कदाचन । गच्छान्यत्र पुरे कश्चित् , पृच्छतु सुखिनं भवान् ॥२११॥ बहूनां धनिनां वृत्तं, ज्ञातमस्ति मया खलु । नैकोऽपि सुखभागू ज्ञातः, ततस्त्वां प्रष्टुमागतः ॥ २११ ॥ वदत्वं स्वसुखं श्रेष्ठिन् , येन स्यां सफलश्रमः। मासद्वये तु युग्मं हि, न्यूनं दिनञ्च वर्तते ॥२१३॥ गते तत् समये शेष्ठिन् !, देवी दास्यति नो सुखम् । विलम्ब नो सहे यस्मात् , ततः शिघ्रं कृपां कुरु ॥२१४॥ श्रुत्वा श्रेष्ठी प्रमोदेन, चिन्तयामासिवानिदम् । आद्योऽहं सुखिनां मध्ये, न कोऽपि मादृशो जनः ॥२१५॥ चन्द्र याने समारोप्य, जगौ श्रेष्ठी मुदा तदा । दर्शयामि सुख मे स्वं, कीदृशोऽहं महासुखी ॥२१६॥ उर्वी कृत्य निजं हस्तं, गृहादिकमदर्शयत् । सर्वमेतन् ममैवास्ति, पुरेऽन्यदपि वर्तते, ॥२१७।। एवं वाती मिथः कुर्वन् , प्राप श्रेष्ठी गृहं मुदा । तस्य वृक्षान् समीपस्थान् , दर्शयित्वा च सोऽवदत् ॥२१८॥ प्रथमा भूमिकां पश्य, सन्त्यत्र वाहनादयः । आरक्षका द्वितीयायां, शस्त्रेण सजिताः सदा ॥ २१९ ॥ दासीदासास्तृतीयायां, ममाज्ञाधारिणो मुदा । चतुर्थी भोजनार्थं च, वसन्ति भक्तकारकाः ॥२२०॥ पञ्चम्यां भूमिकायाश्च, प्राधूर्णकाः समागताः। सुखपूर्व च तिष्ठन्ति, ताविषे त्रिदशा इव ॥२२१।। षष्ठयां भूमौ सुताः सर्वे, तिष्ठन्ति सुखशालिनः । ममाज्ञां तु शिरोधायां, मन्यन्ते, गुरुवागिव ॥२२२।। सप्तम्यां भूमिकायाश्च, तोरणादीनि पश्य भोः !। एषां कान्तिसमुहैश्च, प्रकाशो निशि वर्तते ॥ २२३ ॥ सुवर्णमयपल्यंक-चीनाशूकमसूरकान् । देवानां दुर्लभान् सर्वान् , पश्य चन्द्र ! मनोहरान् ॥२२४॥ ऋणं कस्यापि मे नास्ति, सुखं गीर्वाणसन्निभम् । तेन त्वमपि याचस्व,
16॥१९॥ देव्यग्रे मादृशं सुखम् ॥२२५॥ श्रुत्वैतां श्रेष्ठिनो वाती, दृष्ट्वाऽऽवासादिकं तदा । विलक्षवदनश्चन्द्रः, मौनेन स्थितवान् खलु ॥२२६।।
CoeraCRPCreeDeveoopean
Loading... Page Navigation 1 ... 21 22 23 24 25 26