Book Title: Vastusar Ratnapal Charitre
Author(s): Mithabhai Kalyanchandra Jain S Samstha
Publisher: Mithabhai Kalyanchandra Jain S Samstha

View full book text
Previous | Next

Page 24
________________ श्रीरत्नपाल चरित्रम् ॥ २० ॥ रत्नपालो जगौ चन्द्र, औदासीन्यं कथं तव । सर्वे न्यषेधयन् त्वाव, अहं सम्मतिदोऽभवम् ॥ २२६ ॥ धूनयन्नुत्तमाङ्गं सो, जगाद श्रेष्ठिनं प्रति । एतत् सर्वं मुधा ज्ञेयं, स्वप्नो हि खलु भो वणिक् || २२८|| स्वप्नो मम सदा श्रेष्ठः, श्रेष्ठिन् निरर्थकस्तव । अस्मिन् स्वप्ने न मुह्येस्त्वं, निजे हृदि विचारय ॥२२९॥ रत्नपालो जगौ चन्द्र !, मृषा वदति किं भवान् । अहं जाग्रत् सदैवस्मि, त्वं तन्द्रायां च वर्तसे ||२३०|| चन्द्रो बभाण हे श्रेष्ठिन् !, सत्यं वदामि ते पुरः । जानीहि त्वमिदं सर्वं स्वप्नं तु निश्चयेन भोः ॥२३१॥ चन्द्रो जगाद हे श्रेष्ठिन् !, शृणु स्वप्न कथां मम । निशिदृष्टो मया स्वप्नः, सर्वथानन्ददायकः ॥२३२॥ मत्पार्श्वे सन्ति कोट्य, द्रविणानां तु षोडश । पोडशात्मजकन्याश्च षोडशभूमिके स्थितः || २३४|| दुःखस्य नो लवस्तत्र, सुखेन यान्ति वासराः । उन्मीलिते तु नेत्रे मे, नष्टस्वप्नोऽभवत्तदा || २३५ || गतं सर्वं सुखं श्रेष्ठिन् पश्चात्तापोऽभवन्महान् । एवं ते मिलिते नेत्रे, सर्वं नष्टं भविष्यति ||२३६|| मम स्वप्नस्त्वतिश्रेष्ठः तव स्वप्नो निरर्थकः । तत् सुखं संस्मराम्यद्य, त्वया नैव स्मरिष्यते ॥ २३७ ॥ स्मृत्वाहं तत् सुखं श्रेष्ठिन् सुखं वेद्मि पुनः पुनः । तत्र यादृश आनन्दः, तं कथं कथयाम्यहम् ॥ २६८ ॥ श्रेष्ठिन्नयं तव स्वनो, नो भावि चित्तमोदकृत् । यदि त्वं मन्यसे सत्यं सदा वद गतं भवम् ॥२३९॥ द्वौ स्वप्नावेव हे श्रेष्ठिन् !, समानौ ते ममापि च । तेनाहं कथयामि त्वां विचारय निजे हृदि ॥ २४० ॥ श्रेष्ठ प्रोवाव हे चन्द्र !, किं जल्पसि च मूर्खवत् । प्रत्यक्षं सर्वकार्याणि, करोम्यहं मुदा सदा ||२४१ || जनः पश्यति सर्वाणि, प्रत्यक्षं निजचक्षुषा । किं वदसि भवानेवं मन्येहं प्रथिलोऽसि किम् ? ॥२४२|| नाहं मूर्खश्च हे श्रेष्ठिन् !, विचार्यतां निजे हृदि । सत्यमेतद् यदा सर्व, पूर्वजन्म तदा वद ॥ २४३ ॥ पूर्वजन्म यदि त्वं तु, नो मन्यसे तदा शृणु । त्वमेव नगरश्रेष्ठी, लक्ष्मीपतिस्तवमेव हि ॥२४४ || निमित्तं तत्र भाग्यं हि न स्यात् किमपि तद्विना । तस्मान्मन्यस्व भाग्यं भोः, पुनर्बाढं विचारय || २४५ || विचारयति स श्रेष्ठी, पूर्वं धर्मो मया कृतः । तेनाऽहमीदृशो जातः, भावि किं मे भविष्यति || २४६|| चिन्तयित्वा बभाषे तं, हाहा! जन्म मुधा गतं । दर्शय धर्ममार्गश्च त्वमेव मे गुरुस्ततः ॥ २४७॥ चन्द्रः प्रोवाच हे श्रेष्ठीन् !, आचार्याः सन्त्युपाश्रये । मया सार्धश्च एहि त्वं वन्दस्व गुरु पत्कजौ ॥ २४८ ॥ द्वितीयेऽह्नि प्रगे श्रेष्ठी, सचन्द्रः सूरिस ॥ २० ॥

Loading...

Page Navigation
1 ... 22 23 24 25 26