Book Title: Vastusar Ratnapal Charitre
Author(s): Mithabhai Kalyanchandra Jain S Samstha
Publisher: Mithabhai Kalyanchandra Jain S Samstha

View full book text
Previous | Next

Page 11
________________ CACA श्रीवस्तुसारचरित्रम् ध्यामि जीवितम् । आज्यखंडादियुक्भक्तं, विषोपमं हि ते गृहे ॥ १२१॥ विलक्षोऽथ निजे गेहे, एकाकी सोमिलो गतः । शान्तिपुरेऽथ सारो हि, सप्रियापुत्रकोऽवसत् ॥ १२२ ॥ शत्रुमर्दनभूपालात्, सारः प्राप्तजीविकः । पाठयति निजं पुत्रं, त्रिवर्ग साधयन् सुखम् ॥ १२३ ॥ अन्यदा भूपयुक्तोऽसौ, गतोद्याननिरीक्षितुम् । पश्यतस्तौ मुनि तत्र, कायोत्सर्गस्थितं मुदा ॥ १२४ ॥ योग्यजीवौ मुनित्विा, मुक्त्वा ध्यानं निजं तदा । देशनां विदधे साधुभव्यजीवोपकारिणीम् ।। १२५ ॥ देशनान्ते नृपोऽपृच्छद्, मन्ये त्वां सुकुलोद्भवम् । अस्मिंश्च यौवने स्वामिन् , गृहीतं संयम कथम् ॥१२६।। साधुः प्रोवाच हे राजन् !, संसारोऽयं भयङ्करः । तस्मात् त्यक्त्वा च संसारं, अङ्गीकृतं मया व्रतम् ।। १२७ ॥ भूपालः प्राह हे स्वामिन् !, कथं भयङ्करं जगत्। कृत्वा कृपा मयि ब्रूहि, कारणं भयकारकम् ॥१२८॥ साधुर्बभाण हे राजन् !, अन्यया कथया सृतम् । पुरोहितकथा या हि, विश्वेका सा भयङ्करा ॥१२९।। नृपोऽवदच्च हे स्वामिन् !, वर्तते मे गुरुः सुखी । तस्य नो दुःखलेशोऽपि, कथं दुःखी पुरोहितः । ॥१३०॥ संसारे न सुखी कोपि, विश्वो हि दुःखसागरः । अस्य पूर्वभवं राजन् !, श्रृणु आश्चर्य कारकम् ॥ १३१ ॥ राजपुरे शुभे ग्रामे, सूरसेनाभिधो वणिक् । भानुमती प्रिया तस्य, संतानेन विवर्जिता ॥ १३२ ।। रामरथाभिधस्तत्र, तस्याभूत् प्रातिवेश्मिकः । सुन्दरी गेहिनी तस्य, गुणसौन्दर्यशोभिता ॥ १३३ ॥ पुत्र एकस्तयोरासीत्, द्वित्री संवत्सरात्मकः । मन्दं गच्छति सोबालः, मन्दं मन्दं च भाषते ॥१३४|| भानुमती च सेनोऽथ, तं शिशुं निजपुत्रवत् । लालयतोऽति हर्षेण, भोज्येनाभरणादिना ॥१३५।। अपुत्रस्तु परं पुत्रं, स्वपुत्रमिव मन्यते । रक्षतस्तं निजे हर्थे, स्वपुत्रमिव तौ सदा ॥ १३६ ॥ रामरथोऽन्यदा कस्माद्, प्रामादागतवान् गृहे। पृच्छति च निजां भायीं, क्व गतोऽस्ति सुतः प्रिये ! ॥ १३७ ॥ भार्या बदति पार्श्वस्थं, गृहं गच्छति सर्वदा । जगाम सो गृहे तस्य, पुत्रं द्रष्टुं मुदा तदा ॥ १३८ ॥ यावत् याति रथस्तत्र, तावत् द्वारे स्थिता च सा । प्रोवाच भानुमत्येवं, पुत्रो नास्ति हि मे गृहे ॥१३९॥ प्रियां प्राह रथोऽभेत्य, तत्र नास्ति सुतः खलु । दंपति तु तदा बालं, शोधनार्थ विनिर्गतौ । ॥ १४० ॥ इतस्ततो विसुद्धयन्ती, भ्रमतः प्रतिपाटकम् । कुतो न प्रापतुर्बालं, तेन चिन्ता तुरौ हि तौ ॥१४१।। इतश्च सूरसेनोऽथ, गेहमागतवान् तदा । चिन्तापरौ RecemerenceDeeperpeorveer

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26