Book Title: Updeshpad Mahagranth Part 01 Author(s): Pratapvijay Publisher: Muktikamal Jain Mohan Mala View full book textPage 6
________________ श्रीउपदे शपदे नम् A ६ भव्यजनस्य नाथः-अप्राप्तसम्यग्दर्शनादिगुणाधानेन प्राप्तगुणानां च तत्तदुपायप्ररूपणेन रक्षणतो योगक्षेमकर्ता यस्तं त्रिलोकनाथम् ; जिनं दुरन्तरागाद्यन्तरवैरिवारजेतारम् । कमित्याहा-दुर्गसुराधमसंगमकादिक्षुद्रजन्तुकृतोपसर्गवर्जसंसर्गे-IROEN sप्यविचलितसत्त्वतया महान् बृहद्वीरः शूरो यस्तं महावीरम् अपश्चिमतीर्थाधीश्वरं वर्द्धमाननामानमित्यर्थः । पुनरपि । कीदृशमित्याह:-लोक उक्तलक्षणस्तद्विपरीतश्चालोकः, लोकालोकयोम॑गाङ्क इव केवलालोकपूर्वकवचनचन्द्रिकाप्राग्भारेण यथावस्थिततत्स्वरूपप्रकाशनात् तं लोकालोकमृगाङ्कम् । तथा, "षिञ् बन्धने' इति वचनात्सितं चिरकालबद्धं कर्म र ध्मातं निर्दग्धं शुक्लध्यानानलायेन स निरुक्तात्सिद्धः, "षिधु गत्याम्' इति गतो निर्वृति यातो भुवनाद्भुतभूतविभूतिभा जनतया, 'षिधू शास्त्रे मांगल्ये च' इति वचनात् समस्तवस्तुस्तोमशास्ता विहितमङ्गला, "षिधु संराद्धौ' 'राध साध संसिद्धौ' इति वचनात् साधितसकलप्रयोजनो वा सिद्धस्तं सिद्धम्-उक्तं च-मातं सितं येन पुराणकर्म यो वा गतो निर्वृतिसौधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थों यः सोऽस्तु सिद्धः कृतमङ्गालो मे ॥१॥” तथा, सिद्धः प्रमाणबलोपलब्धात्मतत्त्व उपदेशस्य प्रवचनस्यार्थः जीवाजीवादिरूपोऽभिधेयविशेषो यस्य स तथा; अथवा सिद्धः सकलक्लेशविनिर्मुक्तो जीवविशेषः स एवोपदेशस्याज्ञाया अर्थ प्रयोजनं यस्य स तथा, भगवदाज्ञाया मोक्षकफलत्वेन परमर्षिभिः प्रतिपादितत्वात् , अतस्तं सिद्धोपदेशार्थम् । अत्र च विशेषणबाहुल्यमज्ञातज्ञापनफलमेवोक्तम्, न पुनर्व्यवच्छेदार्थम् , यथा कृष्णो भ्रमरः शुक्ला वलाका इत्यादीवेति । वक्ष्येऽभिधास्ये किमित्याह-उपदेशपदानि, इह सकललोकपुरुषार्थेषु " से मोक्ष एव प्रधानः पुरुषार्थ इति तस्यैव मतिमतामुपदेष्टुमहत्वेन तदुपदेशानामेव भावत उपदेशत्वमामनन्ति तत उपदे- ॥२॥ 55- 55RSS555Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 1008