Book Title: Updeshpad Mahagranth Part 01 Author(s): Pratapvijay Publisher: Muktikamal Jain Mohan Mala View full book textPage 4
________________ श्रीउपदे शपदे ॥१॥ SACREACROSORROREGRORESGRESEASERES उपोद्घातइह खल्वार्यमण्डलमध्योपलब्धजन्मानोऽपि निष्पापङ्कजपुञ्जोज्ज्वलकुलजातिप्रभृतिगुणमणिरमणीयताभाजोऽपि तथा मङ्गलादि. विधशास्त्राभ्यासवशोपजातजात्यमतिमाहात्म्यापहस्तितबृहस्पतयोऽपि विहितौदार्यदाक्षिण्यप्रियंवदत्वाद्यनुपमकृत्यपरंपरा संपादितसकलमनस्विमानवमनःप्रमोदसंपदोऽपि स्वभावत एव मन्दमोहमदिरामदतया मनाप्राप्तनिर्वाणपुरपथानुकू8 लविषयवैराग्या अपि प्राणिनः प्रायो जिनोपज्ञानि सकलकुशलारम्भमूलवीजानि अत एवाधरीकृतनिधानकामधेनुप्रमु खपदार्थप्रभावाणि दूरसमुत्सारितप्रचुरतरमोहतिमिरप्रसराण्युपदेशपदानि विना न सम्यग्दर्शनादिपरिपूर्णमोक्षमार्गावतारसारा भवितुमर्हन्ति । कथंचित्तत्रावतीर्णा अप्यनादिकालविलग्नविलीनवासनासंतानविषवेगावेशवशेन क्षोभ्यमाणमनसो न स्थैर्यमवलम्बितुमलं, यद् वक्ष्यति,-"सफलो एसुवएसो गुणठाणारंभगाण भव्वाण । परिवडमाणाण तहा पायं न उ तट्ठियाणं तु ॥” इत्यवधार्य परहिताधाननिविडनिवद्धबुद्धिर्भगवान् सुगृहीतनामधेयः श्रीहरिभद्रसूरिरुपदेशपदनामकं प्रकरणं चिकीर्षुरादावेव मङ्गलाभिधेयप्रयोजनप्रतिपादकमिदं गाथायुग्ममाह,नमिऊण महाभागं तिलोगनाहं जिणं महावीरं । लोयालोयमियंक सिद्धं सिद्धोवदेसत्थं ॥ १॥ वोच्छं उवएसमए कइइ अहं तदुवदेसओ सुहुमे । भावत्थसारजुत्ते मंदमइविवोहणट्ठाए ॥२॥ 5 ॥१॥ | इह चाद्यगाथया सकलाकुशलकलापनिर्मूलोन्मूलकत्वेन समीहितशास्त्रनिष्पत्तिहेतुरादिमङ्गलमुक्तम् , द्वितीयया तु प्रे-16 क्षावत्प्रवृत्त्यर्थ साक्षादेवोपदेशपदलक्षणमभिधेयं, मन्दमतिश्रोतृजनावबोधलक्षणं च प्रयोजनम् । सामर्थ्याच्चाभिधानाPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 1008