Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 8
________________ श्रीउपदेशपदे ॥३॥ वाचि - "पयईइ तणुकसाओ दाणरओ सीलसंजमविणो । मज्झिमगुणेहिं जुत्तो मणुयाउं बंधए जीवो ॥ १ ॥” अतिदुर्लभमतीव दुरापं वक्ष्यमाणैरेव चोल्लकादिभिर्ज्ञातैर्भवसमुद्रेऽनेक परजात्यन्तरनीरभराकीर्णेऽनर्वाकूपारे संसाराकूपारे । किमित्याह-सम्यक् स्वावस्थोचितानुष्ठानारम्भरूप संगतभावयुक्तं यथा भवति एवं नियोक्तव्यं मनोवाक्कायसाम गोपनेन व्यापारणीयं कुशलैरज्ञानादिदोषकुशलवञ्चनकलाकलापकलितैः मतिमद्भिः पुंभिरित्यर्थः । सदापि वालयुवत्वादिसर्वावस्थाव्याघ्या सर्वकालमेव, धर्मे श्रुतचारित्रलक्षणे जिनप्रणीते, एत एव पठ्यतेः - " बाल एव चरेद्धर्ममनित्यं खलु जीवितम् । फलानामिव पक्कानां शश्वत् पतनतो भयम् ॥ १ ॥ अद्य श्वो वा परश्वो वा श्रोष्यते निष्पतिष्यतः । परिपक्वफलस्येव वपुषोपि टणक्ककः ॥ ३ ॥” मनुजत्वदुर्लभत्वमेवाहः— अइदुल्लहं च एयं चोल्लगपमुहेहिं अत्थ समयस्मि । भणियं दिट्ठतेहिं अहमवि ते संपविक्खामि ॥४॥ अतिदुर्लभं चातिदुरापमेव एतन्मानुषत्वं चोलकप्रमुखैरनन्तरमेव व्याख्यास्यमानैर्दशभिरत्रार्हते समये सिद्धान्ते भ णितं निरूपितं वर्त्तते दृष्टांतैरुदाहरणैः । यदि नामैवं ततः किमित्याह ; - अहमपि कर्त्ता, न केवलं पूर्वैरेवोक्ता इत्यादिशब्दार्थः, तान् चोल्लकादिदृष्टान्तान् संप्रवक्ष्यामि भगवद्भद्रबाहु स्वामिभणितानुसारसांगत्येन प्रतिपादयिष्यामि । ननु पूर्वैरेवोप| देशपदानामुक्तत्वात् किं भवतः पिष्टपेषणप्रायेण तद्भणनेन प्रयोजनमिति ? उच्यते - पूर्वैस्तत्कालभाविनः प्रौढप्रज्ञान् मनुजजन्मदुर्लभता. ॥ ३ ॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 1008