Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 7
________________ शानां मोक्षमार्गविषयाणां शिक्षाविशेषाणां पदानि स्थानानि मनुष्य जन्म दुर्लभत्वादीनि, यद्वा, उपदेशा एव पदानि वचनानि उपदेशपदानि तानि । कतिचित् स्वल्पानि सूत्रतः, अर्थतस्त्वपरिमाणानि, सर्वसूत्राणामनन्तार्थाभिधायकत्वेन पारगत गदितागमे प्रतिपादनात् । तथा चार्पम् - "सव्वनईणं जा हुज वालुया सव्यउदहि जं तोयं । एत्तो अनंतगु| णिओ अत्यो सुत्तस्स एकस्स ॥ १ ॥ कथं वक्ष्ये इत्याह- तस्य महाभागादिगुणभाजनस्य भगवतो महावीरस्योपदेशास्तदुपदेशास्तेभ्यस्तदुपदेशतः महावीरागमानुसारेणेत्यर्थः, स्वातन्त्र्येण च्छद्मस्थस्योपदेशदानानधिकारित्वात् । कीदृशा| नीत्याह, - सूक्ष्माणि सूक्ष्मार्थप्रतिपादकत्वात् कुशाग्रबुद्धिगम्यानि, अत एव भावार्थ ऐदम्पर्यं तदेव सारः पदवाक्यमहावाक्यार्थेषु मध्ये प्रधानं तेन युक्तानि भावार्थसारयुक्तानि । भावार्थश्च " एयं पुण एवं खलु” इत्यादिना वक्ष्यते । किमर्थमित्याह - मन्दा जडा संशय विपर्ययानध्यवसाय विप्लवोपेता तत्त्वप्रतीतिं प्रति मतिर्बुद्धिर्येषां ते तथा तेषां विबोधनं संशयादिबोधदोपापोहेन परमार्थप्रकाशनं तदेवार्थः प्रयोजनं यत्र भणने तन्मन्दमतिविबोधनार्थम्, क्रियाविशेषणमेतत् ॥ १-२ ॥ अथ पदेषूपदेशपदेषु सर्वप्रधानमुपदेशपदं तदभिधित्सुराह; लक्षूण माणुसत्तं कहंचि अइदुलहं भवसमुद्दे । सम्मं निउंजियव्वं कुसलेहिं सयावि धम्मम्मि ॥ ३ ॥ लब्ध्वा समुपलभ्य मानुपत्वं मनुजभावलक्षणं कथंचित्केनापि प्रकारेण तनुकपायत्वादिनाध्यवसाय विशेषेणेत्यर्थः, यद

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 1008