Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 5
________________ भिधेययोर्वाच्यवाचकभावलक्षणः, अभिधेयप्रयोजनयोश्च साध्यसाधनभावस्वभावः संवन्ध उक्त इति समुदायार्थः।। मंप्रत्यवयवार्थः प्रतन्यते-तत्र नत्वा प्रणम्य प्रशस्तमनोवाकायव्यापारगोचरभावमानीयेति यावत्, महावीरमित्युत्तरेण योगः। कीदृशामित्याह,-भागोऽचिन्त्या शक्तिः, ततो महान् प्रशस्यो भागो यस्य स तथा तं महाभागम् । महाभागता चास्य जन्ममज्जनकाल एव सहस्राक्षशङ्काशङ्कसमुत्खननाय वामचरणान्ठकोटिविघट्टितामरगिरिवशात् संकुलशैलराशेरिलाया विसंस्थूलतासंपादनेन, शक्रकृतपराक्रमप्रशंसाऽसहिष्णोः क्रीडनव्याजानीतात्मपरिभवस्य स्वस्कन्धभगवदारोपणानन्तरमेवारब्धगगनतलोल्लइनकारिकायवृद्धेः सुरस्य वज्रनिष्ठुरमुष्टिपृष्ठघाताद् भूमिवत्कुब्जताकरणेन, सकलत्रैलोक्यसाहाय्यनिरपेक्षतया प्रव्रज्यानन्तरमेव दिव्याधुपसर्गसंसर्गाधिसहनाङ्गीकारेण, केवलज्ञानलाभकाले चाप्टमहाप्रातिहा यसपर्योपस्थापनेन, तदनु आन्तरतमःपटलपाटनपटीयसा समस्तजनमनोहारिणाऽवितथकथापथस्फीतिकारिणा जातिसाजरामरणापहारिणा प्रधानार्धमागधभाषाविशेषेण समकालमेव मित्रस्वरूपनरावरादिजन्तुसंशयसंदोहापोहसमुत्सादनेन, स्वविहारपवनप्रसरेण च पञ्चविंशतियोजनप्रमाणचतुर्दिग्विभागमहीमण्डलमध्ये सर्वाधिव्याधिरजोराशेरपसारणेन, सकलसुरासुरातिशायिशरीरसौन्दर्यादिगुणग्रामवशेन च त्रिभुवनस्यापि प्रतीतैव । पुनरपि कीदृशमित्याहा-लोक्यते केवलालोकलोचनवलेन केवलिभिदृश्यते यः स लोकः, स च धर्माधर्मजीवपुद्गलास्तिकायोपलक्षित आकाशदेशः, तदुक्तम् । -"धर्मादीनां वृत्तिद्रव्याणां भवति यत्र तत् क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥१॥” इह तु तदेकदेशोऽप्यू दिनामैकदेशग्रामवल्लोक इत्युच्यते, ततस्त्रयो लोकाः समाहतास्त्रिलोकम् , त्रिलोकस्य लोकत्रयवर्तिनो 550550550545-5-25515015

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 1008