________________
श्रीउपदेशपदे
॥३॥
वाचि - "पयईइ तणुकसाओ दाणरओ सीलसंजमविणो । मज्झिमगुणेहिं जुत्तो मणुयाउं बंधए जीवो ॥ १ ॥” अतिदुर्लभमतीव दुरापं वक्ष्यमाणैरेव चोल्लकादिभिर्ज्ञातैर्भवसमुद्रेऽनेक परजात्यन्तरनीरभराकीर्णेऽनर्वाकूपारे संसाराकूपारे । किमित्याह-सम्यक् स्वावस्थोचितानुष्ठानारम्भरूप संगतभावयुक्तं यथा भवति एवं नियोक्तव्यं मनोवाक्कायसाम
गोपनेन व्यापारणीयं कुशलैरज्ञानादिदोषकुशलवञ्चनकलाकलापकलितैः मतिमद्भिः पुंभिरित्यर्थः । सदापि वालयुवत्वादिसर्वावस्थाव्याघ्या सर्वकालमेव, धर्मे श्रुतचारित्रलक्षणे जिनप्रणीते, एत एव पठ्यतेः - " बाल एव चरेद्धर्ममनित्यं खलु जीवितम् । फलानामिव पक्कानां शश्वत् पतनतो भयम् ॥ १ ॥ अद्य श्वो वा परश्वो वा श्रोष्यते निष्पतिष्यतः । परिपक्वफलस्येव वपुषोपि टणक्ककः ॥ ३ ॥”
मनुजत्वदुर्लभत्वमेवाहः—
अइदुल्लहं च एयं चोल्लगपमुहेहिं अत्थ समयस्मि । भणियं दिट्ठतेहिं अहमवि ते संपविक्खामि ॥४॥
अतिदुर्लभं चातिदुरापमेव एतन्मानुषत्वं चोलकप्रमुखैरनन्तरमेव व्याख्यास्यमानैर्दशभिरत्रार्हते समये सिद्धान्ते भ णितं निरूपितं वर्त्तते दृष्टांतैरुदाहरणैः । यदि नामैवं ततः किमित्याह ; - अहमपि कर्त्ता, न केवलं पूर्वैरेवोक्ता इत्यादिशब्दार्थः, तान् चोल्लकादिदृष्टान्तान् संप्रवक्ष्यामि भगवद्भद्रबाहु स्वामिभणितानुसारसांगत्येन प्रतिपादयिष्यामि । ननु पूर्वैरेवोप| देशपदानामुक्तत्वात् किं भवतः पिष्टपेषणप्रायेण तद्भणनेन प्रयोजनमिति ? उच्यते - पूर्वैस्तत्कालभाविनः प्रौढप्रज्ञान्
मनुजजन्मदुर्लभता.
॥ ३ ॥