Book Title: Tattva Chintamani Anumankhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay

View full book text
Previous | Next

Page 967
________________ तत्त्वचिन्तामणे प्रमानज्ञानस्य साध्याभावनिश्चयहेतुत्वेन तद्दशायां तदभावात्। पक्षधर्माताबलेन प्रसिद्धं बाधान सिध्य 'माध्याभाव-हेत्वोर्ज्ञानादिति(१) पक्षतावच्छेदकावच्छिन्ने माध्याभाववत्त्वस्य हेतौ च पक्षतावच्छेदकावच्छिन्नवृत्तित्वस्य ज्ञानादित्यर्थः, 'व्यभिचारः' व्यभिचारग्रहः, हेतौ यद्यविच्छिन्नत्तित्वमवगाहते तविच्छिन्ने माध्याभाववत्त्वविषयकस्यापि समूहालम्बनज्ञानस्य व्यभिचारज्ञानत्वादिति भावः। 'प्रमात्वज्ञानस्य' यथोकामावप्रकारकज्ञानस्य, हेतुतावच्छेदकप्रकारकज्ञानविधया इति शेषः। 'माध्याभावनिश्चयहेतुत्वेनेति साध्याभावप्रमाविशेष्यत्वेन हेतुना पक्षतावच्छेदकावच्छिन्ने अनुमित्यात्मकसाध्याभावनिश्चयहेतुत्वेनेत्यर्थः, 'तहशायां' प्रमात्वज्ञानदशायां, 'तदभावादिति पक्षतावच्छेदकावच्छिन्ने माध्याभावनिश्चयानावश्यकत्वादित्यर्थः, प्रमात्वस्य माध्याभाववत्त्वघटितत्वेऽपि तदंशे निर्द्धर्मितावच्छेदकत्वात्, यद्धर्मावच्छिन्नवृत्तित्वं हेतौ विषयौक्रियते तद्धोपलचिते निर्द्धर्मितावच्छेदककमाध्याभाववत्वज्ञानन्तु न व्यभिचारज्ञानमिति भावः । पूर्वानास्वरसेन स्वमतमाह, 'पक्षधर्मताबलेनेत्यादिना ‘वयभित्यन्तेन, 'पक्षधर्मताबलेन' वहिव्याप्यो धूमः पर्वतत्तिरिति सामान्यतः परामर्थन, 'प्रसिद्ध दृष्टान्तेन ज्ञातं महानमौयवयादिकं, 'बाधात्' बाधादेव पन्नावच्छेदकावच्छिन्ने तदभावनिमयादेवेति यावत्, ‘इति बाधः पृधगिति (१) साध्याभाव-हेतुज्ञानाद्वितीति क., ग०, साध्याभाव-हेतुज्ञानादिति कस्यचिन्मूलपुस्तकस्य पाठः ।

Loading...

Page Navigation
1 ... 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002