Book Title: Tattva Chintamani Anumankhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
तत्त्वचिन्तामणे
सिद्धिविशेषार्थिनः सास्तौति तस्यानुमितिरेव, एवञ्च सिषाधयिषितपक्षविघटनद्वारा सिद्धसाधनं दूषणं न स्वतः । नन्वभावधौरपि न भावधीप्रतिबन्धिका नेदं : रजतमिति भ्रमानन्तरं रजतनिश्चयात् । नचाभावप्रमा तथा, अपीतः शङ्खइति प्रमापयतएव पौताऽयमिति भ्रमदर्शनादिति चेत्, न, विरोधिज्ञानं हि प्रति
'मिद्धिविशेषार्थिन इति अनुमित्यादिरूपमिद्धिविशेषत्वप्रकारकफलमाधमताज्ञानवत इत्यर्थः, 'मास्ति' प्रत्यक्षतः सिद्धौ सत्यामपि सिद्धौच्छास्ति, 'सिषाधयिषितेति सिषाधयिषारूपपक्षताविघटनबारेत्यर्थः, 'सिद्धसाधर्म' माध्यवत्पक्षनिश्चयः, 'दूषणं' क्वचिदनुमितिविघटकं, 'न रूत इति न साक्षादित्यर्थः, एतच्च सिषाधथिषायाः पक्षतावमतेन, मणिक्वन्मते तु माध्यतत्पक्षो यथा न हेत्वाभामस्तथोक्तं सामान्यलक्षणविचारावसर इति ध्येयं। 'भ्रमानन्तरमिति मति विशेषदंर्शन इति शेषः। तथाच माध्याभाववत्पनरूपस्यैव बाधस्य कथं हेत्वाभासत्वमिति भावः। 'प्रभावप्रमेति अग्टहीताप्रामाण्यकाभावज्ञानमित्यर्थः, नेदं रजतमितिभ्रमे च निगे.पदर्शनोत्पत्तिकाले अप्रामाण्यग्रहादिति भावः । 'प्रमापयतः' अग्टहोताप्रामाण्यकज्ञानवतः, 'भ्रमदर्शनादिति दोषविशेषजन्यचाक्षुषभ्रमदर्शनादित्यर्थः, 'विरोधिज्ञानमिनि विरोधितावच्छेदकावच्छिन्न

Page Navigation
1 ... 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002