Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi
View full book text
________________
जातिनिरूपणम् ।
तथा शब्दपरीक्षायां श्रन्यदन्यस्मादनन्यदित्यन्यताभावः अनियमे नियमान्नानियम इति । अस्यां च विषयिधर्मेोपलम्भः कारणम् । श्रापाततः प्रतिकूलतर्क आरोप्यः अतिपीडायाम सिद्विरनैकान्तिकं वा । प्रत्युत्तरं विषयिधर्मः स्वात्मनि ताद्रूप्येण वर्तत इति पक्षं कक्षीकुर्मः । न च स्वात्मना विषयीकरणं किं तु तदात्मकत्वमिति न स्वरूपव्याघातप्रसक्तिः । तदिदमनङ्गाधिक्यं स्वात्मना विषयत्वस्यानङ्गस्यैवाङ्गीकारात् । तदुक्तम् अनुपलम्भात्मकत्वादनुपलब्धेरहेतुरिति । श्रस्याप्युपलक्षणत्वादुपलम्भात्मकत्वादुप
249
पत्तिरूपेण स्वात्मनि वृत्तावृत्तौ विप्रतिपत्यभावादव्यवस्थात्मकं ज्ञानं संशय इति न वक्तव्यमुभयथाप्यव्यवस्थाया अभावादिति सूत्रतात्पर्यम् । अन्यदन्यस्मादिति । पूर्वीकेभ्यः पञ्चादुक्तानां वर्णीनामन्यत्वात् न वर्ण नित्या इति न वक्तव्यम् अन्यत्वस्य धर्मेभ्योऽन्यत्वेन अनन्याभावादभिव्यञ्जकानां प्रतिवादिनामभिव्यङ्गयविशेषे नियमाभावान्न वर्णविशेषाः प्रयत्नव्यङ्गया इति न वक्तव्यम् उभयथाप्यनियमाभावादिति सूत्रान्तराभिप्रायः । प्रतिकूलतर्क आत्माश्रयरूपः न विषयीकरण विषयवन्न स्वमवलम्ब्य प्रवर्तनं तदात्मकत्वं तत्तद्रूपम् अनुपलम्भात्मकत्वादनुपलब्धिरूपत्वादनुपलब्धेर सत्त्वप्रतिपादक हेतुना स्वानुपलब्धेरहेतुरिच्छात्मकत्वादिच्छाया अहेतुरित्याद्या
५४७.

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437