Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi

View full book text
Previous | Next

Page 408
________________ निग्रहस्थाननिरूपणम् । त्रिभङ्ग्यन्तरमुक्ते ऽपि प्राश्निकैः प्रतिवा दिना ॥ ७ ॥ ३३५ वाक्यमज्ञायमानार्थमविज्ञातार्थमुच्यते । वादिना त्रिभान्तराभिधाने ऽपि प्राश्निकैः प्रतिवादिना चाविज्ञायमानार्थमविज्ञातार्थं नाम निग्रहस्थानं भवति । तदुक्तम् । परिषत्प्रतिवादिभ्यां त्रिरभिहितमपि अविज्ञातमविज्ञातार्थमिति । वादिना त्रिरभिहितमपि परिषत्प्रतिवादिभ्यामर्थवन्तयाऽविज्ञातमविज्ञातार्थमित्यर्थः । तञ्च त्रिविधम् । स्वतन्त्रमात्र प्रसिद्धम् रूढिमनपेक्ष्य योगापेक्षया प्रवृत्तम् निर्यायोपाय प्रकरणाद्यभावेन संशयाक्रान्तं चेति । तari रुपयकपालपुरोडाशदशापविश्रादिमीमांसकानां पञ्चस्कन्धद्वादशायतनच तुराचार्यस्येत्यादि बैौद्वानाम्। त्रिभयन्तरमेकस्य वाक्यस्य त्रिप्रकारमेकार्थवाक्यत्रितयं वा । प्राश्निकैः सभ्यत्वेन वृत्तेः । प्रकरणाथभावेन प्रकरणैौचित्यादिप्रस्तावाभावेन । यज्ञपात्रवि - शेषाः स्फ्यकपालादयः । पुरोडाशं होमद्रव्यम् । दशापवित्र गृहसम्मार्जनं वस्त्रम् | आदिशब्देन चमस (?) उपलादि गृह्यते । पचस्कन्धेति । रूपवेदना विज्ञानसंज्ञानसंस्काराः प स्कन्धाः । षडिन्द्रियाणि षडविषयाश्च द्वादशायतनानि । आचार्यस्य शुद्धोदनेः चत्वारि सत्वानि दुःख समवायनिरोधमार्गः श्रवणमनननिदिध्यासन तत्वज्ञानानि आ ३१०

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437