________________
निग्रहस्थाननिरूपणम् ।
त्रिभङ्ग्यन्तरमुक्ते ऽपि प्राश्निकैः प्रतिवा
दिना ॥ ७ ॥
३३५
वाक्यमज्ञायमानार्थमविज्ञातार्थमुच्यते ।
वादिना त्रिभान्तराभिधाने ऽपि प्राश्निकैः प्रतिवादिना चाविज्ञायमानार्थमविज्ञातार्थं नाम निग्रहस्थानं भवति । तदुक्तम् । परिषत्प्रतिवादिभ्यां त्रिरभिहितमपि अविज्ञातमविज्ञातार्थमिति । वादिना त्रिरभिहितमपि परिषत्प्रतिवादिभ्यामर्थवन्तयाऽविज्ञातमविज्ञातार्थमित्यर्थः । तञ्च त्रिविधम् । स्वतन्त्रमात्र प्रसिद्धम् रूढिमनपेक्ष्य योगापेक्षया प्रवृत्तम् निर्यायोपाय प्रकरणाद्यभावेन संशयाक्रान्तं चेति । तari रुपयकपालपुरोडाशदशापविश्रादिमीमांसकानां पञ्चस्कन्धद्वादशायतनच तुराचार्यस्येत्यादि बैौद्वानाम्।
त्रिभयन्तरमेकस्य वाक्यस्य त्रिप्रकारमेकार्थवाक्यत्रितयं वा । प्राश्निकैः सभ्यत्वेन वृत्तेः । प्रकरणाथभावेन प्रकरणैौचित्यादिप्रस्तावाभावेन । यज्ञपात्रवि - शेषाः स्फ्यकपालादयः । पुरोडाशं होमद्रव्यम् । दशापवित्र गृहसम्मार्जनं वस्त्रम् | आदिशब्देन चमस (?) उपलादि गृह्यते । पचस्कन्धेति । रूपवेदना विज्ञानसंज्ञानसंस्काराः प
स्कन्धाः । षडिन्द्रियाणि षडविषयाश्च द्वादशायतनानि । आचार्यस्य शुद्धोदनेः चत्वारि सत्वानि दुःख समवायनिरोधमार्गः श्रवणमनननिदिध्यासन तत्वज्ञानानि आ
३१०