Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi
View full book text
________________
सटीकता किंकरतायाम्
द्वितीयं तु पयः पयोधिसंभूता कान्तपद वैशेषिकधर्मः पूवैकावधिपदार्थ पलक्षितवस्तुसत्तावान् नियतपूर्वकालवर्ति पदार्थसमवेतत्वात् पाकव्यापारनिष्पन्नसंयोगासमवायिकारणद्रव्यवदिति । तृतीयं तु श्वेता धावतीति तत्राक्षं परसिद्धान्तपरिज्ञान शैौण्डीर्याभिमानेनाभयानुमत्या कदाचिदुपादीयेतापि उत्तरं तु द्वयं सर्वथा अनुपादेयमेव । अन्यथा प्रतिवाद्यपि वैयात्यान्ताद्वशमुपाददानो न निगृह्येतेति कथाभासप्रबन्धः स्यात् । तर्हि किं त्रिरभिधानापेक्षया प्रथमत यवाविज्ञाते तथेोद्भाव्यतामिति चेत् न अनवधा
ca
दिक्षणसंवृत्त्यादिकं गृह्यते । द्वितीयं केवलयौगिकवचनं पयः पयेोधीति पयः पयोधिसम्भूता क्षीराब्धिजाता लक्ष्मीः तस्याः कान्तो विष्णुः तस्य पदं वियत् तस्य वैशेविकधर्मः शब्दः पूर्वेकावधिपदार्थः प्रध्वंसाभावः तदुपलक्षितवस्त्वनित्यं तत्सद्भावः अनित्यत्वं तद्वान अनित्यस्वधर्मयुक्तो भवितुमर्हतीत्यर्थः । नियतपूर्वकालवर्ती पदार्थ उपादानकारणं तत्र समवेतत्वात् कार्यत्वादित्यर्थः । पाकव्यापारेति उदाहरणार्थ कुलालादिव्यापारसंजातावयवसंयोगासमवायिकारणघटादिवदित्यर्थः । श्वेता धावतीत्यत्र संशयाक्रान्तत्वं धवलः कश्चिद्रवादि धावतीति श्वा इता देशान्तरं प्रति धावतीत्यनयोरर्थयोरन्यतर निर्णायकाभावाद् द्रष्टव्यम् । आयं स्वीयमतसिद्धार्थवचनम् । शैौण्डर्य कौशलम् । वैयात्यात् सामर्थ्यात् । परि
३१८

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437