Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi

View full book text
Previous | Next

Page 377
________________ सटीकतार्किकरक्षायाम् pa अतदाकारो वा धर्मेौ न धर्मिणस्तदाकारतामापादयतीति । तन्न धर्म एव हि धर्मिण आकारः न तु तेनापाद्यमर्थान्तरमस्ति ततश्चायुक्ताङ्गत्वं तदाकारापादकत्वस्यायुक्तस्याङ्गीकारात् । कथं धर्मिणो भिन्न आकारः स्यादिति चेत् न भिन्नस्यैवाकारत्वात् । न चातिप्रसङ्गः स्वभावतो व्यवस्थानात् । काल्पनिक धर्मधर्मिभावमभ्युपगच्छतापि काल्पनिकस्यापि भेदस्यावश्याभ्युपगमनीयत्वात् । न हि स्वयमेव स्वस्य धर्मे भवति श्रात्माश्रयत्वप्रसङ्गात् स्वव्याघातश्च । इदमसाधकमित्यत्रासाधकत्व योगाद साधकं तत्किं तदाकार मतदाकारं वा भिन्नमभिन्नं वा कार्यमकार्य वेत्यादिविकल्पप्रवृतेर्दुवारत्वात् । एवं हेतुदृष्टान्त ३०४ तथाहीत्यादिना । अतदाकार इति । अनित्यत्वादिधर्मरहितस्तदिना अनित्यत्वादिधर्मेौ न धर्मिणमनित्यत्वादियुक्तं करोतीति तदुक्तं पूर्वमित्यर्थः । कथं धर्मिण इति स्वरूपशब्दपर्यायः ततो न विरोध इत्यर्थः (?) । भिन्नस्याकारत्वे सर्वस्य सर्व एवाकारः स्यादित्यत्राह । न चातिप्रसङ्ग इति । स्वभावत इति । शरीरिणो भिन्नस्य शरीरत्वे ऽपि यथा घटपटादीनां शरीरत्वाभावः एवं भिन्नेषु कश्चिदेवाकारो न तु सर्व इति भावः । काल्पनिकमिति । धर्मधर्मिणाः भेदानवस्थानादभेदे धर्मधर्मिभावाभावान्न वास्तवः कश्चिधर्मधर्मिभावोऽस्ति किं तु काल्पनिक इति वदता बौद्धादिनेत्यर्थः । भेदानभ्युपगमे बौद्धमाह । न हि स्वयमेवेति । आत्माश्रयत्वप्रसङ्गात् आत्माश्रयं स्वमाश्रित्य स्वस्याव ६६८

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437