________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
20
SYADYADAMUKTAVALI OR JAINAVIŠEŞATARKA
तृतीयः स्तबकः
अथ द्वितीयं प्रतिपाद्यमानास्पष्टत्वभावाभिमतं परोक्षम्। आद्ये परोक्षे हि मतिश्रुते द्वे सैद्धान्तिकास्तावदिदं वदन्ति ॥ १॥
स्मरणं प्रत्यभिज्ञानं तर्कोऽथानु मितिः श्रुतम् । परोक्षं पञ्चवा प्राहुर्भूरयः पूर्वसूरयः ॥ २॥
संस्कारबोधसंभूतमनुभूतार्थवेदनम् । तत् तीर्थकृत्प्रतिच्छन्द: स्मरणं प्रथमोदितम् ।। ३ ।।
मानापिता प्रतीतिर्या स एवानुभवः स्मृतः । संकलनं विवक्षातो वस्तुप्रत्यवमर्शनम् ॥४॥
प्रत्यभिज्ञानमेवात्रानुभवस्मृतिहेतुकम् । सामान्यद्वयविषयं तथा संकलनात्मकम् ॥५॥
स एवायं जिनदत्तस्तथा गोपिण्ड एष सः । तत्तज्जातीय एवायं गोसदृग्गवयस्तथा ॥६॥
तर्कः प्रमाणमात्रेणोपलम्भानुपलम्भतः । संभवः कारणं यत्र कालत्रितयवर्तिनोः ।। ७ ॥
साध्यसाधनयोाप्त्याद्यालम्बनमिदं हि यत् । अन्दयव्यतिरेकाम्यां संवेदनमिदं हि सः ॥ ८॥
1. =JSM II. 1. 2. =JSM H. 2.
In the MSS. the figures १, २, ३, ४ and ५ are placed after the words स्मरणं, प्रत्यभिज्ञानं, तर्कः, अनु मिति: and श्रुतम्. 3. Cf. JS p. 20; PNT III. 3, 4. 4. Cf. JS p. 20. 5-6.Cf. PNT III. 5, 6. 7. =JSM II. 11.
Cf. JS p. 20; PNT III, 7. 8. abc=JSM II. 12abc.
d: Cf. ISM II. 12d: संवेदनमुदीरितम्.
For Private And Personal Use Only