Book Title: Syadvada Ratnakar Part 5
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
९९६
१०
प्रमाणनयतत्त्वा लोकालङ्कारः
[ परि. ६ सू.
प्रमाणफलं प्रमाणाद्भिन्नमेवेति यौगाः, अभिन्नमेवेति ताथाग्रताः, इत्येकान्तद्वयनिरासार्थं स्वमतं प्रमाणतो व्यवस्थापयन्नाह-
ततः प्रमाणतः स्याद्भिन्नमभिन्नं च प्रमाणफलत्वान्यथानुपत्तेरिति ॥ ६ ॥
तत् सामान्यलक्षणलक्षितं फलं धर्मे प्रमाणतः स्याद्भिन्नमभिन्नं चेति साध्यो धर्मः प्रमाणफलत्वान्यथानुपपत्तेरिति हेतुः || ६ || अथास्य हेतोर्व्यभिचारं पराकुर्वन्नाह-
उपादान बुद्धयादिना प्रमाणाद्भिन्नेन व्यवहितफलेन तोर्व्यभिचार इति न विभावनीयमिति ॥ ७॥ प्रमाणफलं च भविष्यति प्रमाणात्सर्वथा भिन्नं च भविष्यति । यथोपादानयुद्धयादिकमिति न परामर्शनीयं यौगैरित्यर्थः ॥ ७ ॥
कुत इत्याह---
तस्यैकप्रमातृतादात्म्येन प्रमाणभेदव्यवस्थितेरिति
तस्योपादानबुद्धयादेर्व्यवहितफलस्यैकप्रमातृतादात्म्येनैकेन प्रमाता १५ सह तादात्म्यमविष्वग्भावस्तेन कृत्वा किमित्याह - प्रमाणात्सकाशादभेदव्यवस्थितेः प्रमाणेन समं तादात्म्योपपत्तेर्हेतोर्व्यभिचार इति नः विभावनीयमिति प्राक्तनेन योगः ॥ ८ ॥
एकप्रमातृतादात्म्यमपि तस्य कुतः सिद्धमित्याह---
प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतितीतेरिति ॥ ९ ॥
१' प्रमाणस्य प्रमाणत्वं तस्मादभ्युपगच्छताम् । भिन्नं फलमुपेतव्यमेकत्वे तदसंभवात् ॥' इति न्या. मं. पृ. ७१ ।
२ ' विषयाधिगतिश्चात्र प्रमाणफलमिध्यते । स्ववित्तिर्वा प्रमाणं तु सारूप्यं योग्यतापि वा ॥ १३४४ || ' इति तत्त्वसंग्रहे ।

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120