Book Title: Syadvada Ratnakar Part 5
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 47
________________ प्रमाणमयतत्त्वालोकालङ्कारः [परि. ६ सू. ५३ एवं चसिषाधयिषितादाद्वैपरीत्येन निश्चिता । व्याप्तिर्यस्य विरुद्धोऽसौ प्रसिद्धिपदमाययौ ।। ७०५ ॥ ५३ ॥ अथानकान्तिकलक्षणप्रकटनार्थमाह---- यस्यान्यथानुपपत्तिः सन्दिह्यते सोज्नैकान्तिक इति ॥ ५४॥ यस्य हेतुत्वेनाभिमतस्य धर्मस्य, अन्यथानुपपत्तेः सन्दिह्यते दोलाय-- मानत्वान्न निर्णीयते सोऽनैकान्तिको हेत्वाभासः ।। ५४ ॥ तद्भेदसङ्ख्यामाह१० स द्वेधा निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्ति . कश्चेति ॥ ५५॥ स इत्यनैकान्तिकः । निर्णीता विपक्षे वृत्तिर्यस्य निर्णीतविपक्षवृत्तिकः । सन्दिग्धाविपक्षे वृत्तिर्यस्यासौ सन्दिग्धविपक्षवृत्तिकः । अर्य च सन्दिग्धविपक्षव्यावृत्तिक इति, सन्दिग्धान्यथानुषपत्तिक इति सन्दि१५ ग्धव्यतिरेक इति चोच्यते ॥ ५५ ॥ ___ तत्राचं भेदमुदाहर्तुमाह---- निर्णीतविपक्षवृत्तिको यथा नित्यः शब्दः प्रमेयत्वा दिति ॥५६॥ शब्दनित्यत्वैकान्तबादी जैमिनीयादिरस्य हेतुत्वमुपन्यस्तवान् । २० तस्यायं विपक्षेऽपि निणीतवृत्तिकत्वादनैकान्तिकः । तथा हि-प्रमेयत्वं सपक्षभूते नित्ये व्योमादौ यथा प्रतीयते । तथा विपक्षभूतेऽप्यनित्ये घटादौ प्रतीयत एव । ततश्चोभयत्रापि प्रतीयमानत्वाविशेषाकिमिदं नित्यत्वेनाविनाभूतमुताहो अनित्यत्वेनेत्येवमन्यथानुपपत्तेः सन्दिह्यमानत्वादनैकान्तिकता स्वीकुरुते ॥ ५६ ॥ २५ अथ द्वितीयं भेदमुदाहर्तुमाह--

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120