Book Title: Syadvada Ratnakar Part 5
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
१२३४.
प्रमाणनयतत्त्वालोकालङ्कारः परि. ६ सु. ५९ साध्यधर्मेण विकलो रहितः साध्यधर्मविकलः । एवं साधनधर्मवि. कलोभयधर्मविकलावपि । तथा संदिग्धः साध्यो धर्मो यस्मिन्नसौ संदि. ग्धसाध्यधर्मा । एवं संदिग्धसाधनधर्मसंदिग्धोभयधर्माणामपि । तथा
न विद्यतेऽन्चयो यत्रासावनन्वयः । एवमप्रदर्शितान्वयविपरीतान्वया. ५ वपि । चशब्दः समुच्चये । इतिशब्दः प्रकारपरिसमाप्तौ । न चैवैते साधर्म्यदृष्टान्ताभासप्रकारा इत्यर्थः ।। ५९ ।। __ अथैतेषां क्रमेणोदाहरणान्याह-- तत्रापौरुषेयः शब्दोऽमूर्तत्वादःखादिति साध्य
धर्मविकल इति ॥ ६॥ दुःखं हि पौरुषेयं, पुरुषव्यापाराभावे दुःखानुभवायोगात् । ततोऽयं दृष्टान्तोऽपौरुषेयत्वाल्यो न साध्यधर्मेण विकल इति ।। ६० ।। तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतो परमाणुवदिति
साधनधर्मविकल इति ॥६१।। परमाणौ हि साध्यधर्मोऽपौरुषेयत्वमस्ति । साधनधर्मस्त्वमूर्तत्वं १५ नास्ति मूर्तत्वात्परमाणोः ।। ६१ ॥
__कलशवदित्युभयधर्मविकल इति ॥ ६२॥
अपौरुषेयः शब्दोऽमूर्तत्वादित्यस्मिन्नेव प्रयोगे कलशवदिति दृष्टान्त उभयधर्माभ्यां साध्यसाधनलक्षणाभ्यां विकलः पौरुषेयत्वान्मूर्तत्वाच्च
कलशस्य ॥४२॥ २० रागादिमानयं वक्तृत्वाद्देवदत्तवदिति संदिग्धसाध्य
धर्मेति ॥ ६३ ॥ देवदत्ते हि रागादयः संदिग्धाः किं सन्त्याहोस्विन्नेति पुरुषान्तरगतानां चेतोविकाराणां परोक्षत्वेनास्मादृशानां तत्र संदेहात् । रागाधव्यभिचारिलिङ्गादर्शनाच्च ॥ ६३ ॥

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120