Book Title: Syadvada Ratnakar Part 5
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 106
________________ ११३६. परि. ८ सू. १५] रत्नाकरावतारिकासहितः द्वितीय एव बादिनि चतुर्थस्याङ्गनियममाहुः तत्रैव ब्यङ्गस्तुरीयस्य ॥ १२ ॥ तत्रैव द्वितीये स्वात्मनि तत्त्वनिर्णिनीषौ वादिनि, तुरीयस्य परत्र तत्त्वनिर्णिनीषोः केवलिनः प्रतिवादिनः, व्यङ्ग एव वादः, तत्त्वनिर्णायकत्वाभावासंभवेन सभ्यानामभिहितदिशा सभापतेश्चाऽनपेक्षणात्॥१२॥ ५ तृतीयेऽङ्गनियममाहुःतृतीये प्रथमादीनां यथायोगं पूर्ववत् ॥ १३॥ परत्र तत्वनिर्णिनीयौ क्षायोपशमिकज्ञानशालिनि वादिनि, निवेदितरूपाणां प्रथमाद्वितीयतृतीयतुरीयाणां प्रतिवादिनाम् , उक्तयुक्त्यैव प्रथमस्य चतुरङ्गः, द्वितीयतृतीययोः कदाचिद् द्यङ्ग , कदाचित् त्र्यङ्गः, १०. तुरीयस्य तु द्यङ्ग एवं वादो भवति । निःसीमा हि मोहहतकस्य महिमा, इति कश्चिदात्मानं निर्णीततत्त्वमिव मन्यमानः समग्रपदार्थपरमार्थदर्शिनि केवलिन्यपि तन्निर्णयोपजननार्थ प्रवर्तत इति न कदाचिदसम्भावना, भगवास्तु केवली प्रबलकृपापीयूषपूरपूरितान्तःकरणतया तमप्यवबोधयतीति को नाम नानुमन्यते ? ॥ १३ ॥ परोपकारैकपरायणस्य भगवतः केवलिनः संभवन्त्यपि परत्र तत्त्वनिर्णिनीषा न केवलकलावलोकितसकलवस्तुतया कृतकृत्ये केवलिनि विलसितुमुत्सहत इति प्रथमादीनां त्रयाणामेवाशनियममाहुः-- तुरीये प्रथमादीनामेवम् ॥ १४ ॥ परत्र तत्त्वनिर्णिनीषो केवलिनि वादिनि, प्रथमद्वितीयतृतीयानामेवमिति पूर्ववत् प्रथमस्य चतुरङ्गः, द्वितीयतृतीययोस्तु व्याएव वादो भवतीत्यर्थः । "प्रारम्भकापेक्षतया यदेवमङ्गव्यवस्था लभते प्रतिष्ठाम् । संचिन्त्य तस्मादमुमादरेण प्रत्यारभेत प्रतिभाप्रगल्भः॥१॥१४॥ २५.. चतुरङ्गो वाद इत्युक्तम् , कानि पुनश्चत्वार्यानि ! इत्याहुः २०..

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120