________________
प्रमाणमयतत्त्वालोकालङ्कारः
[परि. ६ सू. ५३
एवं चसिषाधयिषितादाद्वैपरीत्येन निश्चिता । व्याप्तिर्यस्य विरुद्धोऽसौ प्रसिद्धिपदमाययौ ।। ७०५ ॥ ५३ ॥ अथानकान्तिकलक्षणप्रकटनार्थमाह---- यस्यान्यथानुपपत्तिः सन्दिह्यते सोज्नैकान्तिक
इति ॥ ५४॥ यस्य हेतुत्वेनाभिमतस्य धर्मस्य, अन्यथानुपपत्तेः सन्दिह्यते दोलाय-- मानत्वान्न निर्णीयते सोऽनैकान्तिको हेत्वाभासः ।। ५४ ॥
तद्भेदसङ्ख्यामाह१० स द्वेधा निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्ति
. कश्चेति ॥ ५५॥ स इत्यनैकान्तिकः । निर्णीता विपक्षे वृत्तिर्यस्य निर्णीतविपक्षवृत्तिकः । सन्दिग्धाविपक्षे वृत्तिर्यस्यासौ सन्दिग्धविपक्षवृत्तिकः । अर्य
च सन्दिग्धविपक्षव्यावृत्तिक इति, सन्दिग्धान्यथानुषपत्तिक इति सन्दि१५ ग्धव्यतिरेक इति चोच्यते ॥ ५५ ॥
___ तत्राचं भेदमुदाहर्तुमाह---- निर्णीतविपक्षवृत्तिको यथा नित्यः शब्दः प्रमेयत्वा
दिति ॥५६॥ शब्दनित्यत्वैकान्तबादी जैमिनीयादिरस्य हेतुत्वमुपन्यस्तवान् । २० तस्यायं विपक्षेऽपि निणीतवृत्तिकत्वादनैकान्तिकः । तथा हि-प्रमेयत्वं
सपक्षभूते नित्ये व्योमादौ यथा प्रतीयते । तथा विपक्षभूतेऽप्यनित्ये घटादौ प्रतीयत एव । ततश्चोभयत्रापि प्रतीयमानत्वाविशेषाकिमिदं नित्यत्वेनाविनाभूतमुताहो अनित्यत्वेनेत्येवमन्यथानुपपत्तेः
सन्दिह्यमानत्वादनैकान्तिकता स्वीकुरुते ॥ ५६ ॥ २५ अथ द्वितीयं भेदमुदाहर्तुमाह--