________________
परि. ६ सू. ५५] स्याद्वादरत्नाकरसहितः १०१५ सन्दिग्धविपक्षवृत्तिको यथा विवादपदापन्नः पुरुषः
सर्वज्ञो न भवति वक्तृत्वादिति ॥ ५७ ।। वक्तृत्वं हि विपक्षे सर्वज्ञे सन्दिग्धवृत्तिकम् । सर्वज्ञः किं वक्ता, आहोस्विन्न वक्तेति सन्देहात् । ननु सर्वज्ञः केनचिद् ब्रुवाणो न दृष्टोऽदर्शनाच्च। ततो वचनस्य व्यावृत्तिर्निश्चीयत एवेति चेत् । ५ मैवम् । अस्मादृशैरनतिशयप्रज्ञैः सर्वज्ञस्य भगवतो भाषमाणस्य साक्षादनीक्षणेऽपि तत्र वचनव्यावृत्तेनिश्चेतुमशक्यत्वेन सन्दिग्धत्वात् । अथ सर्वज्ञत्वेन सह वचनस्य विरुद्धत्वात्ततो व्यावृत्तिस्तस्य निश्चीयत एवेति चेत् । तदप्यपेशलम् । तेन सह तस्य विरोधसाधनानवधारणात् । विवक्षालक्षणस्य वक्तृत्वकारणस्य रागस्वभावतया १० सर्वज्ञखन विरुद्धत्वात्तत्कार्यस्य वक्तत्वस्यापि तेन सह विरोधः सिध्यतीति तु बुद्धिः कस्यचित्साधीयसी सुप्तमत्तप्रभृतिषु विवक्षामन्तरेणापि वक्तृत्वस्योपलम्भात्तस्यास्तत्कारणत्वस्थैवासिद्धेः । तत्रापि सा समस्त्येवेति न सम्भावनीयं यथानुभवस्याभावात्प्रबोधमदापगमादिदशासु प्रलपितस्य स्मरणानुपलब्धेः । तथापि विवक्षापरिकल्प. १५ नायामतिव्याप्तिरपरस्या अपि विवक्षायाः परिकल्पनायचेः क्वचिदवसरे केसरिकिशोरविवक्षायां करिशावकशब्दप्रयोगदर्शनाच नावश्यं वक्तत्वं प्रति कारणत्वं विवक्षायाः । तत्राप्यन्तरालवर्तिनी करिशावकविवक्षा विद्यत इति न मन्तव्यं प्रमाणाभावात् । तच्छब्दप्रयोगान्यथानुपपत्तिरेव प्रमाणमिति न परामर्शनीयम् । किमपान्तराले करिशावकवि- २० वक्षा समस्ति न वेति संशयस्यानुल्लचनीयत्वाद्विवक्षां विनापि तदुपपत्तौ विरोधाभावात् । तदभावे निर्निबन्धनतया नित्यमेव तच्छब्दप्रयोगप्रसक्तिरिति न तर्कणीयमसिद्धत्वान्निर्निबन्धनतायास्तथाविधभाषाद्रव्यं रूपं तथाविधात्मप्रयत्नसहकृतमुपादानभूतम् । अस्ति हि प्रमाणप्रतिपन्नं निबन्धनं करिशावकशब्दप्रयोगस्य २५ तथाविधत्वं च भाषाद्रव्यात्ममनःप्रयत्नानामदृष्टविशेषादिनिमित्तम