________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ६ सू. ५७
ङ्गीकर्तव्यम् । एवमनङ्गीकारे विवक्षाया अपि सदा सद्भावप्रसङ्गान्नित्यं तच्छब्दप्रयोगापत्तिः । अमनस्कत्वाच्च । विवादास्पदस्य पुरुषस्येच्छासामान्यस्यैवासम्भवात्कुतस्तद्विशेषभूतविवक्षायाः सम्भवः । तादृशस्तु तस्य वचनव्यापारश्चेष्टामात्रम् । न पुनर्विवक्षापूर्वक वक्तृत्वस्वभावः । ५ अस्तु वा विप्रतिपत्तिपात्रे पुंसि शुद्धेच्छा तथापि न रागस्वभावत्वमस्य लोकशुभेच्छाया रागत्वेन प्रतीतेरभावात् । अतः कथमपि वक्तृत्वस्य सर्वज्ञत्वेन समं न विरोधः सिध्यतीति सर्वज्ञभावे साध्ये सन्दिग्धविपक्षवृत्तिकाख्यानैकान्तिकत्वमस्य सुव्यवस्थितम् । दूषितं च वक्तृत्वाख्यं साधनं सर्वज्ञसिद्धौ प्रबन्धेनेत्यलमतिप्रसङ्गेन । एवं स १० श्यामो मैत्रीतनयत्वात्परिदृश्यमानमैत्री तनयस्तोमवदित्यपि सन्दिग्धविपक्षवृत्तिकानैकान्तिकस्योदाहरणं द्रष्टव्यम् । तथा हि मैत्रीतनयश्च भविष्यति देशान्तरवर्ती पुमान्श्यामश्च न भविष्यति विपक्षेण श्यामत्वाभावेन समं मैत्रीतनयत्वस्य विरोधाभावादिति । नैयायिकास्तु सोपाधिकत्वेनात्य हेतोरगमकत्वमाहुः निरुपाधिकः किल हेतु: स्वसा१५ ध्यसाधनप्रावीण्यमा स्तिमुते । मैत्रीतनयत्वस्य तु श्यामत्वे साध्ये शाकायाहारपरिणतिपूर्वकत्वमुपाधिरस्ति 1 तत्कथमस्य गमकत्वं सत्यपि हि मैत्रीतनयत्वे यः शाकाद्याहारपरिणतिकारणकः स एव श्यामो न त्वपर इति । उपाधेतल्लक्षणम् - साधनाव्यापकत्वे सति साध्यव्यापको यः स उपाधिरिति । यो हि साधनं न व्याप्नोति २० साध्यं तु व्याप्नोति स उपाधिरित्यर्थः । यथा लोहलेख्यं वज्रं पार्थिचत्वात्परिदृश्यमानदारुवदित्यत्र पार्थिवत्वाख्यस्य हेतोर्लोह लेख्यत्वे साध्ये सुकुमारावयवसन्निवेशवत्त्वम् । तद्धि पार्थिवत्वाख्यं साधनं न व्याप्नोति । न हि यत्र यत्र पार्थिवत्वं तत्र तत्र सुकुमारावयवसन्नि वेशवत्त्वमिति व्याप्तिरस्ति । सुकुमारावयवसन्निवेशवत्त्वमन्तरेणापि पार्थि२५ वत्वस्य वज्रादावुपलम्भात् । साध्यस्य तु लोह लेख्यस्य व्यापकं सुकुमारावयवसन्निवेशवत्त्वं, यत्र यत्र लोहलेख्यत्वं तत्र तत्र सुकुमारावय
१२२६