________________
१२२७
परि. ६ सु. ५७] स्याद्वादरत्नाकरसहितः वसन्निवेशवत्त्वमिति व्याप्तेः सद्भावात् । न खलु सुकुमारावयवसन्निवेशवत्त्वं विना लोहलेख्यत्वं काप्युपलब्धमिति सुव्यवस्थितं सुकुमारावयवसन्निवेशत्वस्योपाधित्वम् । एवं शाकाद्याहारपरिणतिपूर्वकत्वस्यापि । तथाहि – मैत्रीतनयत्वाख्यस्य साधनस्य न व्यापकं शाकाद्याहारपरिणतिपूर्वकत्वम् । न हि यत्र यत्र मैत्रीतनयत्वं तत्र तत्र शाकाद्याहार- ५ परिणतिपूर्वकत्वं सम्भवति । तदन्तरेणापि मैत्रीतनयत्वस्य सद्भावाविरोधात् । साध्यस्य तु श्यामत्वाख्यस्य व्यापकं शाकाद्याहारपरिगतिपूर्वकत्वम् । यत्र यत्र श्यामत्वं तत्र तत्र शाकाद्याहारपरिणतिपूर्वकत्वमिति व्याप्तेः सम्भवात् । न खलु शाकाद्याहारपरिणतिपूर्वकत्वमन्तरेण श्यामत्वं कदाचनाप्युपलब्धम् । तदित्थं यथोक्तोपाधि. १० लक्षणयोगतः शाकाद्याहारपरिणतिपूर्वकत्वस्याप्युपाधित्वं सुव्यक्तम् । ननु शाकाद्याहारपरिणतिपूर्वकत्वे संपूर्णमुपाधिलक्षणं नास्त्येव । तथाहि-साध्यव्यापकः साधनाव्यापकश्योपाधिरभिधीयते । न च शाकाद्याहारपरिणतिपूर्वकत्वस्य साधनव्यापकत्वं विद्यते । मैत्रीतनयत्वाख्यसाधनव्यापकत्वादस्य । यो हि मैत्रीतनयः स शाकाद्याहारपरि- १५ णतिपूर्वक एव दृष्टो यथा परिदृश्यमानमैत्रीतनयस्तोमः । न च देशान्तरवर्तिनि मैत्रीतनये संशय इति मन्तव्यम् । परिदृश्यमानमैत्री. तनयस्तोमे व्याप्तौ गृहीतायां तत्रापि शाकाद्याहारपरिणतिपूर्वकत्वानुमानात् । ततः सम्पूर्णोपाधिलक्षणयोगित्वासम्भवाच्छाकाद्याहारपरिणतिपूर्वकत्वयोवह्निधूमवद्वयाप्तिः प्रतिपन्ना स्यात् । सैव तु २० नास्ति । तथा ह्यनौपाधिकः सम्बन्धी व्याप्तिः । मैत्रीतनयत्वशाकाद्या. हारपरिणतिजत्वसम्बन्धे च श्यामत्वमेवोपाधिरस्ति । सत्यपि हि मैत्रीतनयत्वे यः श्यामः स एव शाकाद्याहारपरिणतिपूर्वको न सर्व इति । ततः सम्पूर्णोपाधिलक्षणयोगित्वाच्छाकाद्याहारपरिणतिपूर्वकत्वस्योपाधित्वकीर्तनं न्याय्यमेव । तदित्थं शाकाद्याहारपरिणतिपूर्वकत्व- २५ लक्षणत्वेनोपाधिना मैत्रीतनयत्वाख्यहेतोः सोपाधिकत्वान्न श्यामत्वाख्यं