________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. ६ सू. ५७
I
स्वसाध्य प्रति गमकत्वम् । अयमेव चाप्रयोजको हेत्वाभासः कथ्यते । परप्रयुक्त व्याप्त्युपजीवी हि हेतुरप्रयोजकः । परोपाधिः स चात्रास्तीति तैरप्यनेन न्यायेन मैत्रीतनयत्वादेः सन्दिग्धविपक्षवृत्तिका नैकान्तिकमेव कोष्व ( अगत्या ) गत्या परमार्थवृत्त्या प्रकाशितं भवतीति न ५ कश्चिद्विशेष इति । पराभ्युपगतश्च पक्षत्रयव्यापकादिरनैकान्तिकभेदप्रपञ्चः प्रकृतलक्षणलक्षितत्वाविशेषान्नातोऽर्थान्तरमित्युदाह्रियते । तत्र पक्षत्रयव्यापको यथा-- अनित्यः शब्दः प्रमेयत्वात् । अयं हि पक्षे सपक्षे विपक्षे च सर्वत्र वर्तते । पक्षव्यापकसपक्षविपक्षैकदेशवृत्तिर्यथा - नित्यः शब्दोऽमूर्तत्वात् । अमूर्तत्वं हि पक्षीकृते शब्दे सर्वत्र वर्तते । सपक्ष१० कदेशे च व्योमादौ न परमाणुषु । विपक्षैकदेशे च सुखादौ न घटादाविति । पक्षसपक्षव्यापको विपक्षैकदेशवृत्तिर्यथा गौरयं विषाणित्वात् । विषाणित्वं हि पक्षीकृते गोपिण्डविशेषे वर्तते सपक्षे च गोवधर्माध्यासिते सर्वत्र व्यक्तिविशेषे वर्तते । विपक्षस्य चागोरूपस्यैकदेशे महिष्यादौ वर्तते न पुनर्मनुष्यादाविति । पक्षत्रयैकदेश वृत्ति१५ र्यथा - अनित्ये वाङ्मनसे अमूर्तत्वात् । अमूर्तत्वं हि पक्षैकदेशभूतायां वाचि वर्तते न मनसि । सपक्षस्य चैकदेशे सुखादौ न घटादौ । विपक्षस्य च नित्यस्यैकदेशे गगनादौ न परमाणुष्विति । पक्षसपक्षैकदेशवृत्तिर्विपक्षव्यापको यथा द्रव्याणि दिक्कालमनांसि, अमूर्तत्वात् । अमूर्तत्वं हि पक्षैकदेशभूतयोदिक्कालयोर्वर्तते न मनसि । सपक्षस्य २० च द्रव्यरूपस्यैकदेश आत्मादौ वर्तते न घटादौ । विपक्षे चाद्रव्यरूपे गुणादौ सर्वत्रेति । सपक्षविपक्षैकदेशवृत्तिः सपक्षव्यापको यथा- न द्रव्याणि दिक्कालमनांस्यमूर्तत्वात् । अत्रापि प्राक्तनमेव व्याख्यानमद्रव्यरूपस्य गुणादेस्तु सपक्षतेति विशेषः । सपक्षविपक्षव्यापकः पक्षैकदेश वृत्तिर्यथा - पृथिव्यप्ते जांस्यनित्यान्यगन्धवत्त्वात् । अगन्धवत्त्वं २५ हि पृथिवीतोऽन्यत्र पक्षैकदेशे वर्तते । न तु पृथिव्यां सपक्षे चानित्ये गुणादौ सर्वत्र विपक्षे चात्मादौ नित्ये सर्वत्रेति । असाधारणमपि हेतुं
१२२८