________________
परि. ६ स्. ५७] स्याद्वादरत्नाकरसहितः
१२२९ संशयजनकत्वादनैकान्तिकत्वेन सौंगताः स्वीकुर्वन्ति । यथा नित्यः शब्दः श्रावणत्वादिति प्राभाकरः शब्दनित्यत्वसिद्धधर्थममुं हेतुं प्रयुक्तवान् । अयं च व्योमादौ सपक्ष घटादौ च विपक्षे न क्वापि वर्तत इत्यसाधारणलेन संशयजनकत्वादनैकान्तिकः । तथा हि-नित्यानित्यविनिमुक्तस्य पक्षान्तरस्यासम्भवात् , कि भूतम्य शब्दस्य श्रावणत्वं किं नित्य- ५ स्याहोस्विदनित्यस्येति । तदेतदसङ्गतम् । श्रावणत्वाद्धि शब्दस्य सर्वथैव नित्यत्वं यदि साध्यते, तदाय विरुद्ध एव हेतुः कथंचिदनित्यत्वसाधनात्याच्याश्रावणवस्वभावत्यागेनोत्तरश्रावणत्वस्वभावोत्पत्तेः कथं. चिदनित्यत्वमन्तरेण शब्देऽनुपपत्तेः । अथ कथंचिन्नित्यत्वमस्माच्छब्दे साध्यते तदासौ सम्यग्धेतुरेव कथंचिन्नित्यत्वेन सहान्यथानुपप- १० त्तिसद्भावादिति । नायमनै कान्तिकः, सात्मकं जीवच्छरीरं प्राणादिमत्त्वादित्ययं तद्यसाधारणानैकान्तिको भविष्यति । प्राणादिसत्त्वस्य जीवच्छरीर एवोपलभ्यमानत्वादात्मनश्चानुपलब्धिलक्षणप्राप्तत्वासात्मकानात्मकराशिविवेकाभावात् । घटादीनां सात्म ............ .... णादीनामनुभूतेः प्राणादिमत्त्वाख्यस्य हेतोः सात्मकत्वेनान्यथा- १५ नुपपत्तिनिश्चयसद्भावात्, स्वपरप्रकाशकस्वभावस्य परिणामिचैतन्यस्यात्मत्वात्, अनुपलब्धिलक्षणप्राप्तविभुत्वादिगुणोपेतेनात्मना सात्मकत्वे साध्ये ........ स्य निरुपचरितस्य तत्रानुपपद्यमानत्वादिति । एतेन वैशेषिकोऽप्यसाधारणहेत्वाभासमनध्यवसितसंज्ञयाऽभिदधानः प्रतिषि. ध्यते स्म । तथा ह्ययं तलक्षणमाह-साध्यासाधकः पक्ष एव वर्तमानोऽ- २० नध्यवसायहेतुत्वादन ............ विपक्षः पक्षव्यापको यथा-सर्वमनित्यं सत्त्वात् । अत्र सर्वस्य वस्तुनः पक्षीकृतत्वेन सपक्षविपक्षयोर
१ यस्मान्न साध्यस्य न विपर्ययस्य निश्चयोऽपि तु तद्विपरीतः संशयः साध्येतरयोः संशयहेतुरनैकान्तिक उक्तः । न्या. बि. टी. पृ. ९३ पं. ९।
२.यश्चानुमेये विद्यमानस्तत्समानासमानांतीययोरसन्नेव सोऽन्यतरासिद्धोऽ. मध्यवसायहेतुत्वादनध्यवसितः, यथा सत्कार्यमुत्पत्तरिति' प्र.पा. भा. पृ. १२०.