________________
परि. ६ सू. ५३ ]
स्याद्वादरत्नाकरसहितः
1
उक्तसाध्यविपर्ययसाधकत्वेनैव हि हेतुर्विरुद्धतामधिरोहति नानुक्तसाध्यविपर्ययसाधकत्वेनापि ' ' इति तत्परास्तमवसेयम् । साध्यविपर्ययसाधकत्वस्याभयत्र तुल्यत्वात् । साध्यत्वं चानुक्तस्यापि प्रसाधितमधस्तृतीयपरिच्छेदे । ननु विशेषविपरीतसाधकस्यापि विरुद्धत्वस्वी-कारे सकलानुमानमुद्राभङ्गप्रसङ्गः । धूमस्यापि हि धरणीधर कन्धराधि'करणस्य सिषाधयिषितधनंजयविशेषविपर्ययसाधकत्वेन विरुद्धत्वमभिधातुं सुशकमेवेति चेत् ! अभिधीयतां यत्र धूमसामान्योपन्यासेन जिज्ञासितः कृशानुविशेषस्तस्माद्विशेषमुक्तमनुक्तं वा साध्यमभिलषता विशिष्ट एव हेतुरुपन्यसनीयस्तथा च न प्रकृतदोषावकाश इति । यस्तु धर्मिस्वरूपविपरीत साधनो धर्मिविशेषविपरीत साधनश्च विरुद्धः । स न १० युक्तः । साध्यस्वरूपविपर्ययसाधकस्यैव विरुद्धत्वेनाभिधानात् । इतरथा समस्तानुमानोच्छेदापत्तिः । न हि तथाविधो हेतुरिह जगति कश्चिदवाप्यते यः साध्यसिद्धयेऽभिधीयमानो धर्मिणः स्वरूपं विशेष कंचन बाधते । तथा नित्यः शब्दः कृतकत्वादिति सकलतार्किक - गृहप्रसिद्ध एष हेतुरनित्यतां साधयन्नपि यो यः कृतकः स शब्दो न १५ भवति, यथा घटः । यो यः कृतकः स भाषावर्गणा हेतुको न भवति । यथा स एवेति धर्मिणः स्वरूपं विशेषं च बाधत एवेत्यहेतुः स्यात् । न चैवं युक्तमिति । तथा वह्निमानयं पर्वतो धूमवत्त्वादित्ययमपि लौकिकपरीक्षकप्रसिद्धो हेतुर्वह्निमतां साधयन्नपि यो यो धूमवान्स पर्वतो न भवति यथा पाकप्रदेश: । यो यो धूमवान्स शिखरश्रेणिरम्यो न २० भवति । यथा स एवेति धर्मिणः स्वरूपं विशेषं च तिरस्करोत्येवेति हेतुर्न भवेन्न चैतदुपपन्नमिति न धर्मिस्वरूपविशेषविपरीतसाधनौ नाम सौगताभ्युपगतौ विरुद्धहेत्वाभासौ स्तः ।
।
·
१ द्वयोरूपयोर्विपर्ययसिद्धौ विरुद्धः कयोर्द्वयोः सपक्षे सत्त्वस्यासपक्षे 'न्वासत्त्वस्य । यथा कृतकत्वं प्रयत्नानन्तरीयकत्वं च नित्यत्वे साध्ये विरुद्धो त्वाभासः " अनयोः समक्षेत्रमपक्षे च सत्यमिति विपर्ययसिद्धिः साध्यविपर्ययसाधनाद्विरुद्धौ ' इति । न्या. बि. पू. १०२ ।
"<
एतौ व
> (
१०२३