________________
१०२२
प्रमाणनयतत्त्वालोकालङ्कारः परि. ६ सू. ५३ सपक्षः स्यात्परममहापरिणामादेरन्यत्रापि वृत्तितः साधारणगुणत्वात् । पक्षविपक्षकदेशवृत्तिरविद्यमानसपक्षो यथा--सत्तासम्बन्धिनः षट्पदार्था उत्पत्तिमत्त्वात् । अयं हि हेतुः पक्षीकृतषट्पदार्थकदेशेऽनित्यद्रव्यगुणकर्मण्येव वर्तते न नित्यद्रव्यादौ । विपक्षे चासत्त्वासंब५ न्धिनि प्रागभाषायेकदेशैकप्रध्वंसाभावे वर्तते । ननु प्रागभावादी सप
क्षस्य वा संभवादेव तन्नास्या अवृत्तिः सिद्धा । पक्षव्यापको विपक्षकदेशवृत्तिरविद्यमानसपक्षो यथा-आकाशविशेषगुणः शब्दो बाधेन्द्रियग्राह्यत्वात् । अयं हि हेतुः पक्षीकृते शब्दे वर्तते । विपक्षस्य चाना
काशविशेषगुणस्यैकदेशे रूपादौ वर्तते, न तु सुखादौ सपक्षस्य चा. १० सम्भवादेव तत्रास्या वृत्तिः सिद्धा । पक्षैकदेशवृत्तिर्विपक्षव्यापकोऽविद्य
मानसपक्षो यथा-काकाशविशेषगुणः शब्दोऽपदात्मकत्वात् । अयं हि हेतुर्जलदगर्जितादौ . पक्षीकृतशब्दस्यैकदेशे वर्तते न पुनः षट्पदस्वरूपे, विपक्षे वानाकाशविशेषगुणे कुम्भादौ सर्वत्र
वर्तते । सपक्षे चावृत्तिस्तस्याभावात्सुप्रसिद्धा । न त्वन्योपीष्टविधा१५ तकृद्विरुद्धो धर्मविशेषविपरीतसाधनाख्योऽस्ति । यथा साङ्ख्यस्य
सौगतादिकं प्रतिपुरुषं प्रसाधयतः 'पराश्चिक्षुरादयः सङ्घातत्वाच्छयनासनाद्यंगवत्' इति । अयं हि हेतुर्यथा शयनासनादिदृष्टान्तबलाञ्चक्षुरादीनां पारायं साधयति तथेष्टा, असंहतपरार्थत्वविपरीतं संह
तपरार्थत्वमपीतीष्टविधातकृद्विरुद्धो धर्मविशेषविपरीतसाधन इति २० चोच्यते । कथं चास्य संग्रह इति चेत् । उक्तलक्षणेनैवेति ब्रूमः ।
साध्यविपर्ययेणैवान्यथानुपपन्नं हि विरुद्धस्य लक्षणं तच्चात्राप्यषणम् । साध्यं युक्तमनुक्तं चाभीप्सितं भवति प्रकृतप्रयोगे चाभीप्सितमनुक्तं च साध्यमसंह्तपारायं तद्विपरीतं च संहतपासर्थ्यसंघातत्वहेतुर्दृष्टा
न्तबलेन साधयतीति कथं नास्य प्रोक्तलक्षणेन सङ्ग्रहः । एतेन यदाह २५ कश्चित्--' पर्याप्तमस्य संग्रहाभियोगेन स्वरूपस्यैवासम्भवात् ,
१ न्या. वि. पृ. १०३ पं. ९ । २.न्या. वि. पृ. १३३ पं. १९ ।