________________
१०२
परि. ६ सू. ५३] स्याद्वादरत्नाकरसहितः तुरङ्गत्वेनैव साध्यतुर त्वविपरीतेन व्याप्तं गवादिषु प्रतीयते तुरन्मे तदसम्भवादिति विरुद्धमेव । ये चाष्टौ विरुद्धभेदाः परैरिष्ट्रास्तेऽप्येतलक्षणलक्षितत्वाविशेषादिहैवान्तर्भवन्तीत्युदाहियन्ते । तत्र सति सपझे चत्वासे विरुद्धाः । पक्षविपक्षव्यापक: सपक्षवृत्तिः । यथा-नित्यः शब्दः उत्पत्तिधर्मकत्वात् । उत्पत्तिधर्मकत्वं हि पक्षीकृते शब्दे वर्तते निस्य- ५: विपरीते चानित्यघटादौ विपक्षेनाकाशादौ नित्ये सत्यपि सपक्ष इति । विपक्षैकदेशवृत्तिः पक्षव्यापकः, सपक्षावृत्तिश्च यथानित्यः शब्दः (सामान्यत्वे सति, अस्मदादिबाह्यन्द्रियग्राह्यत्वात् ) प्रत्यक्षत्वात् । बाह्येन्द्रियग्रहणयोग्यतामात्रं हि बाह्येन्द्रियप्रत्यक्षत्वमन्न विवक्षितम् । तच्च कालत्रयवर्तिषु सर्वेष्वपि शब्देषु सम्भवति । तेन १.. सिद्धमस्य पक्षव्यापकतं चानित्ये घटादौ भावात्सुखादौ चाभावात् । सिद्धं सपक्षावृत्तित्वं च नित्ये व्योमादाववृत्तिः सामान्य वृत्तिस्तु सामान्यत्वे सतीति विशेषणाव्यवच्छिन्ना 1 पक्षविपक्षकदेशवृत्तिः सपक्षावृत्तिश्च । यथाऽस्मदादिवाझकरणप्रत्यक्ष वाङ्मनसे सामान्यविशेषवत्त्वे सति नित्यत्वात् । नित्यत्वं हि पक्षकदेशे मनसि वर्तते, न याचि १५: विपक्षे चास्मदादिबाह्यकरणाप्रत्यक्षे गगनादौ, न सुखादौ सपक्षे च घटादावस्यावृत्तेः । सपक्षावृत्तित्वं सामान्यस्य च सपक्षत्वं सामान्यविशेषवत्त्वे सतीति विशेषणाद्यवच्छिन्नं योगिबाह्यकरणप्रत्यक्षस्य चाकाशादेरस्मदादिग्रहणादसपक्षत्वम् । पक्षैकदेशवृत्तिः सपक्षावृत्तिर्विपक्षव्यापको यथा-नित्ये वाङ्मनसे उत्पत्तिधर्मकत्वात्, २० उत्पत्तिधर्मकत्वं हि पक्षैकदेशे वाचि वर्तते, न मनसि 1 सपक्षे चाकाशादौ नित्ये न वर्तते विपक्षे तु घटादौ सर्वत्र वर्तत इति । एवमसत्यपि सपक्षे चत्वारो विरुद्धाः । पक्षविपक्षव्यापकोऽविद्यमानसपक्षो यथा---आकाशविशेषगुणः शब्दः प्रीयत्वात् । प्रमेयत्वं हि पक्षे शब्दे वर्तते । विपक्षे चानाकाशविशेषगुणे घटादौ । ननु सपक्षे २५ तस्यैवाभावान्न ह्याकाशे शब्दादन्यो विशेषगुणः कश्चिदस्ति यः