Book Title: Syadvada Ratnakar Part 5
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 43
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. ६ स. ५३ नित्य एव पुरुष इति वा प्रतिज्ञा भवतु । अनित्य एवेति वा द्वयोरपि पक्षयोः प्रत्यभिज्ञानादिमत्त्वाख्यो हेतुर्विपरीतमेव साधयति । परिणामिपुरुषेणैवोभयैकान्तविद्धन व्याप्तत्वात् । न चैकस्य पुरुषस्य नित्यानित्योभयात्मकत्वं विरुद्ध सर्वप्राणभृतां तथैव स्वानुभवसिद्धत्वात्तथैव ५ प्रत्यभिज्ञानादिव्यवहारोपपत्तेः । अन्यथा समस्तव्यवहारोच्छेदप्रसङ्गात् । नित्य एवानित्य एव वेत्येवमेकान्तेन कल्पितयोः पुरुषयोः प्रमाणादिव्यवहारप्रवृत्तिविरुद्धयोः परम्परपरिहारस्थितिलक्षणो विरोधो न पुनरस्मिन्प्रमाणसिद्धे परिणामिपुरुषे । तथा चोक्तमाचार्यश्रीसिद्धसेनदिवाकरपादैः-- " परस्पराक्षेपविलुप्तचेतसः ___ स्त्रवादपूर्वापरमूढनिश्चयान् ।। समीक्ष्य तत्वोत्पथिकान्कुवादिनः __ कथं पुमान् स्थाच्छिथिलादरस्त्वधि ॥ १ ॥ वदन्ति यानेव गुणान्धचेतसः समेत्य दोषान् किल ते स्वविद्विषः । त एव विज्ञानपथागताः सता त्वदीयसूक्तप्रतिपत्तिहेतवः ॥२॥” इति । अन्येनाप्युक्तम् - "ये परस्खलितोनिद्राः स्वदोषेऽक्षिानमीलनाः । २० तपस्विनस्ते किं कुर्युरप्राप्तत्वन्मतश्रियः ॥” इति । एवमपारणिामा शब्दः कृतकत्वात्, तुरङ्गोऽयं शृङ्गसङ्गित्वादित्यादन्यिा विरुद्धोदाहरणानि दृश्यामि । तथा हि कृतकत्वं पूर्वोत्तराकारपहिहारावाप्तिास्थातलक्षणपरिणामेनैवाविनाभूतं बहिरन्तर्वा प्रतीतिविषयः सर्वथा नित्ये क्षणिके वा तदभावप्रतिपादनात् । तथा शृङ्गसनित्वमप्य .. - -- . . - -...-... - ... .-.... -- १. द्वा. प्रथमद्वा० श्लों. ५-६

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120