Book Title: Syadvada Ratnakar Part 5
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 27
________________ १००४ प्रमाणनयतत्त्वालोकालङ्कारः [परि.६ सू. २४ अज्ञानात्मकं चानात्मप्रकाशकं च स्वमात्रावभासकं च निर्विकल्पक च समारोपश्चेति सर्वेषां द्वन्द्वः। ते किमित्याह-प्रमाणस्य सम्बन्धिनः स्वरूपाभासाः प्रमाणाभासाः प्रत्येतव्याः ॥ २४ ॥ अत्र यथाक्रम दृष्टान्तानाह-- ५ यथा सन्निकर्षाद्यस्वसंविदितपरानवभासकज्ञानदर्श नविपर्ययसंशयानध्यवसाया इति ॥२५॥ सन्निकर्ष आदिर्यस्य कारकसाकल्यादेः परैः प्रमाणतया प्रति. पन्नस्य स्वाभिप्रेतचक्षुरादिदर्शनचतुकस्य च तत्सन्निकर्षादिज्ञान शब्दस्य प्रत्येकं पदद्वयेनाभिसम्बन्धात् । अस्वसंविदितं ज्ञानं नैया१० यिकाद्युपकल्पितं परानवभासकं बाह्यार्थापलापि परिकल्पितं ज्ञानं दर्शनं सौगतानां चतुर्विधप्रत्यक्षतया संमतं विपर्ययसंशयानध्यवसायाचोपवर्णितस्वरूपास्ततः सर्वेषां द्वन्द्वः । तत्र सन्निकर्षादिकमज्ञानात्म. कस्य दृष्टान्तः । अस्वसंविदितं ज्ञानमनात्मप्रकाशकस्य परानव भासकं स्वमात्रावभासकस्य दर्शनं निर्विकल्पकस्य विपर्ययादयस्तु १५ समारोपस्येति ॥ २५ ॥ कथमेषां तत्स्वरूपावभासतेत्यत्र हेतुमाह-- तेभ्यः स्वपरव्यवसायस्यानुपपत्तेरिति ॥२६॥ न खल्वज्ञानस्वभावं सन्निकर्षादिकं वाऽनात्मप्रकाशकमस्वसंविदितं वा स्वमात्रावभासकं परानवभासकं वा सर्वथा निर्णयशून्यं दर्शनं २० वा विपर्ययादिस्वरूपः समारोपो वा स्वपरयोनिर्णयं कर्तुं पर्याप्मोतीति तेषां प्रमाणस्वरूपाभासल्वमुपपन्नम् । यत्पुनः प्रमाणस्वरूपाभासस्वभावं न भवति तत्स्वपरयोनिर्णयं कर्तुं पर्याप्तमेव । यथा ज्ञानात्मकं स्वप्रकाशकं परावभासकं सविकल्पकं विपर्ययादिविकलं च प्रमाणमिति । एतच्च सर्व प्रागेव प्रतिष्ठितमित्यलामेहातिप्रसङ्गेन ॥ २६ ॥ १ चक्षुरचक्षुरवधिकेवलेति दर्शनचतुष्टयम् ।

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120