Book Title: Syadvada Ratnakar Part 5
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
१००८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ६ स. ३८ तत्र प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेषणा
. स्त्रयः पक्षाभासा इति ।। ३८ ॥ तत्र तेषु पक्षाभासादिषु मध्ये प्रतीतं च प्रमाणप्रतिपन्नं निराकृतं च प्रत्यक्षादिभिर्वाधितम् । अनभीप्सितं चानिष्टं साध्यधर्मरूपं विशेषणं येषु ते प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेषणास्त्रयः । पक्षस्थानोपन्यस्तत्वात्तत्कार्याकरणाच्च । पक्षवदाभासन्त इति पक्षाभासाः कथ्यन्ते । प्रतीतसाध्यधर्मविशेषणों निराकृतसाध्यधर्मविशेषणोऽनभी. प्सितसाध्यधर्मविशेषणश्चेति । अप्रतीतानिराकृताभीप्सितसाध्यधर्म
विशिष्टधामणां सम्यक्पक्षत्वेन प्रागुपवर्णितत्वादेतेषां च तद्विपरीतत्वा. १० दिति ॥ ३८ ॥
तत्र प्रथमं पक्षाभासमुदाहर्तुमाहप्रतीतसाध्यधर्मविशेषणो यथार्हतान्प्रत्यवधारणवर्ज परेण प्रयुज्यमानःसमस्ति जीव इत्यादिरिति॥३९॥
रागद्वेषमोहलक्षणारिहननात्, पापस्वरूपरजोहननात्, रहस्याभावात्, १५ अतिशयपूजार्हत्वाद्वा, अर्हस्तीर्थकरः स देवता येषां त आर्हता जैना
स्तान्प्रति अवधारणमस्त्येव जीव इत्याद्यनेकान्तस्तद्वर्जयतीत्यवधारणवर्ज यथा भवति, आदिशब्दान्नास्ति जीवो, नित्यो जीवः, श्रावणः शब्दः, शीतलं जलमुष्णोऽमिरित्येवमादिकमप्यत्रोदाहरणं दृश्यम् । इदमत्रैचंपर्यमवधारणं वयित्वा परोपन्यस्तसमस्तोऽपि वाक्यप्रयोग आर्हतानां प्रतीतमेवार्थ प्रकाशयति, ते हि सर्व जीवादिवस्त्वनेकान्तास्मकमिति प्रतिपन्नाः । अन्यथा समस्तप्रमाणादिव्यवहारोच्छेदप्रस - ङ्गादिति तेषामवधारणरहितं प्रमाणवाक्यं सुनयवाक्यं वा प्रयुज्यमानं प्रसिद्धमेबोद्भावयतीत्यनर्थकमिति यदा त्ववधारणयुक्तः पक्षः प्रयोगस्तदा प्रत्यक्षादिनिराकृतो भवतीति न कश्चिदार्हतान्प्रति विजिगीषुः

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120