________________
१००४
प्रमाणनयतत्त्वालोकालङ्कारः [परि.६ सू. २४ अज्ञानात्मकं चानात्मप्रकाशकं च स्वमात्रावभासकं च निर्विकल्पक च समारोपश्चेति सर्वेषां द्वन्द्वः। ते किमित्याह-प्रमाणस्य सम्बन्धिनः स्वरूपाभासाः प्रमाणाभासाः प्रत्येतव्याः ॥ २४ ॥
अत्र यथाक्रम दृष्टान्तानाह-- ५ यथा सन्निकर्षाद्यस्वसंविदितपरानवभासकज्ञानदर्श
नविपर्ययसंशयानध्यवसाया इति ॥२५॥ सन्निकर्ष आदिर्यस्य कारकसाकल्यादेः परैः प्रमाणतया प्रति. पन्नस्य स्वाभिप्रेतचक्षुरादिदर्शनचतुकस्य च तत्सन्निकर्षादिज्ञान
शब्दस्य प्रत्येकं पदद्वयेनाभिसम्बन्धात् । अस्वसंविदितं ज्ञानं नैया१० यिकाद्युपकल्पितं परानवभासकं बाह्यार्थापलापि परिकल्पितं ज्ञानं
दर्शनं सौगतानां चतुर्विधप्रत्यक्षतया संमतं विपर्ययसंशयानध्यवसायाचोपवर्णितस्वरूपास्ततः सर्वेषां द्वन्द्वः । तत्र सन्निकर्षादिकमज्ञानात्म. कस्य दृष्टान्तः । अस्वसंविदितं ज्ञानमनात्मप्रकाशकस्य परानव
भासकं स्वमात्रावभासकस्य दर्शनं निर्विकल्पकस्य विपर्ययादयस्तु १५ समारोपस्येति ॥ २५ ॥
कथमेषां तत्स्वरूपावभासतेत्यत्र हेतुमाह-- तेभ्यः स्वपरव्यवसायस्यानुपपत्तेरिति ॥२६॥
न खल्वज्ञानस्वभावं सन्निकर्षादिकं वाऽनात्मप्रकाशकमस्वसंविदितं वा स्वमात्रावभासकं परानवभासकं वा सर्वथा निर्णयशून्यं दर्शनं २० वा विपर्ययादिस्वरूपः समारोपो वा स्वपरयोनिर्णयं कर्तुं पर्याप्मोतीति
तेषां प्रमाणस्वरूपाभासल्वमुपपन्नम् । यत्पुनः प्रमाणस्वरूपाभासस्वभावं न भवति तत्स्वपरयोनिर्णयं कर्तुं पर्याप्तमेव । यथा ज्ञानात्मकं स्वप्रकाशकं परावभासकं सविकल्पकं विपर्ययादिविकलं च प्रमाणमिति । एतच्च सर्व प्रागेव प्रतिष्ठितमित्यलामेहातिप्रसङ्गेन ॥ २६ ॥
१ चक्षुरचक्षुरवधिकेवलेति दर्शनचतुष्टयम् ।