________________
परि ६ सू. ३० ]
स्याद्वादरत्नाकर सहितः
इत्थं सामान्यतः प्रमाणस्वरूपाभासमभिधाय विशेषतस्तदभिधित्सुः सांव्यवहारिकप्रत्यक्षाभासं तावदाह
सांव्यवहारिक प्रत्यक्षमिव यदा भासते तत्तदाभा
समिति ॥ २७ ॥
सांव्यवहारिकप्रत्यक्ष मिन्द्रियानिन्द्रियनिबन्धनतया द्विप्रकारं प्रागुपवर्णितस्वरूपं प्रतिपत्तव्यम् || २७ ॥
१००५:
――
པ་
उदाहरणमाह
यथाम्बुधरेषु गन्धर्वनगरज्ञानं दुःखे सुखज्ञानं चेति
॥ २८ ॥ अत्राद्यं निदर्शनमिन्द्रियनिबन्धनाभासस्य द्वितीयं पुनरिन्द्रियनि- १० बन्धनाभासस्य । अवग्रहाभासादयस्तु तद्भेदाः स्वयमेव प्राज्ञैर्विवेचनीयाः || २८ ॥
पारमार्थिकप्रत्यक्षाभास मिदानीमा वेदयन्नाह---
पारमार्थिक प्रत्यक्षमिव यदाभासते तचदाभासमिति ॥ २९ ॥ १५
पारमार्थिकप्रत्यक्षं विकलसकलस्वरूपतया द्विभेदं यथोक्तमवधार्यम् ॥ २९ ॥ निदर्शनमाह-
यथा शिवाख्यस्य राजर्षेरसङ्ख्यातद्वीपसमुद्रेषु सद्वीपसमुद्रज्ञानमिति ॥ ३० ॥ २०
शिवाल्यो राजर्षिः स्वसमयप्रसिद्धः, तस्य किल विभङ्गापरपर्यायमवध्याभासं तादृशसंवेदनमा विर्बभूवेत्याहुः सैद्धान्ताः । मनःपर्यायकेवलज्ञानयोस्तु विपर्ययः कदाचिन्न सम्भवति । एकस्य संयमविशुद्धि
१ शिवराजर्षिचरितं भ. सू. श. ९ उ. ११ सू. ४१८ तो ज्ञेयम् ।