________________
प्रमाणनयतत्त्वालोकाल हारः परि. ६ सू. ३० प्रादुर्भसत्वादन्यस्य समस्तावरणस्य क्षयसमुत्थत्यात् । ततश्च नात्र तदाभासचिन्तावकाशः ॥ ३० ॥ ... अथ परोक्षामासं विचक्षुः स्मरणामासं तावदाहअननुभूते वस्तुनि तदिति ज्ञानं स्मरणाभासमिति
॥३१॥ अननुभूते कदाचिदप्यनुपलब्धे ॥ ३१ ॥ उदाहरणमाह-- अननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथेति
॥३२॥ १०. सुगमम् ॥ ३२॥
प्रत्यभिज्ञानाभासमाहतुल्ये पदार्थे स एवायमित्येकस्मिंश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभिज्ञानाभासमिति ॥ ३३ ॥
.. प्रत्यभिज्ञानं हि तिर्यगूर्खतासामान्यादिगोचरमुपवार्गितं, तत्र तिर्य१५ सामान्यालिङ्गिते भावे स एवायमिति ज्ञानम् । उर्वतासामान्य
स्वभावे चैकस्मिन्द्रव्ये तेन तुल्य इति ज्ञानम् । आदिशब्दादेखेंजातीयकमन्यदपि ज्ञानं प्रत्यभिज्ञानाभासमिति ।। ३३ ।। तत्रोदाहरणमाह
यमलकजातवदिति ॥ ३४ ॥ २० एकस्याः स्त्रिय एकदिनोत्पन्नमपत्ययुगलं यमलकमिति कीयते ।
ततश्च यमलकातयोर्मध्यादेकत्र द्वितीयेन तुल्योऽयमिति जिशासिते स एवायमिति ज्ञानम् । अपरन स एवायमिति बुमुत्सिते तेन तुल्योयमिति ज्ञानं च प्रत्यभिज्ञानाभासमित्यर्थः ॥ ३४॥