________________
परि. ६ सू. २४ ] स्याहादरत्नाकरसहितः ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकल
पुरुषार्थसिद्धिहेतुः स्वीकर्तव्य इति ॥२२॥ अयमभिसन्धिः-सर्वापि पुरुषार्थसिद्धिः प्रमाणनिवन्धनात् । ततस्तां तात्त्विकीमभिलषता तन्मूलभूतं प्रमाणं तावत्तात्विकमङ्गीकर्तव्यम् । प्रमाणस्य च तात्त्विकत्वे सिद्धे तत्फलस्य तज्जन्यतया तात्त्वि- ५ कत्वमरत्नोपनतमिति । तदित्थं प्रमाणफलव्यवहारस्य पारमार्थिकत्वप्रसिद्धेः सफल एवायं प्रमाणफलयोर्भेदाभेदप्रतिष्ठानारम्भः स्याद्वाद. पीयूषपानलम्पटानामिति । . कः शक्तश्चरमं तरीतुमुदधिं बाह्वोर्बलान्मानवः
कः पाणौ त्रिदिवाधिपक्षितिधरं धतुं पटीयानिह । कः शेषाहिफणाविभूषणमणीनादातुमभ्युद्यतः को वा मानफलं कृती जिनमते सम्यक्क्षमो जल्पितुम् । ७०३१२२
एवं प्रमाणस्य विस्तरतः स्वरूपसंख्याविषयफलान्यभिधायेदानी हेयज्ञाने सति तद्धानादुपादेयं सम्यगुपादातुं पार्यतेऽतस्तत्स्वरूपाद्याभासमध्याह-- प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदाभास
मिति ॥ २३॥ " पूर्वप्रतिपादितात्प्रमाणस्य सम्बन्धिनः स्वरूपादिचतुष्टयात्स्वरूप. संख्या विषयफललक्षणात्सकाशाद्विपरीतमपरं स्वरूपादिचतुष्टयं यत्तत्तदाभासं स्वरूपादिचतुष्टयाभासं स्वरूपाभासं संख्याभास विषया• २०. भासं फलाभासं चेत्यर्थः ॥ २३ ॥
लद्वदाभासत इति कृत्वा, तत्र स्वरूपाभासं तावदाह --~-- अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पकसमारोपाःप्रमाणस्य स्वरूपाभासा इति २४