________________
१००२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ६ स. २० विभिन्ना सामग्री प्रतिपादिता साप्यनुपपन्ना । सन्निकर्षस्य प्रागेक प्रतिक्षिप्तत्वात् । सति च. कार्यभेदे कारणभेदः कल्पयितुं युक्तः । न चात्र तद्भेदोऽस्ति विशेषणविशेष्यालम्बनस्यैकस्यैव ज्ञानस्य समर्थितत्वादिति ।
भिन्नाभिन्नं तदिदमियता विस्तरेण प्रसिद्धं __ प्रत्यक्षादेरधिगमगणात्तत्फलं सर्वमेव । यस्त्वेकान्तः कुमतमतिभिस्तीर्थिकैः कीर्तितोऽसौ
दोषव्याघ्रग्रसनवशतो न स्वरूपं बिभर्ति १७०२१॥२०॥ कश्चिदाह---" कल्पनाशिल्पिनिर्मिता सर्वापि प्रमाणफल१० हृतिरिति विफल एवायं प्रमाणफलालम्बनः स्याद्वादिनां भेदाभेद
प्रतिष्ठोपक्रमः' इति । तन्मतमिदानीमपाकर्तुमाह--- संवृत्त्या प्रमाणफलता व्यवहार इत्यप्रामाणिकपलापः, परमार्थतः स्वाभिमतसिद्धिविरोधादिति ॥२१॥ ___ संवृत्त्याऽविचारितरम्यप्रतीत्या कल्पनापराभिधानया, इयमत्रो१५ पनिषत् । सांवृतप्रमाणफलव्यवहारवादिनापि सांवृतत्वं प्रमाणफलयोः
परमार्थवृत्त्या तावदेष्टव्यम् । तच्चासौ प्रमाणादभिमन्यतेऽप्रमाणाद्वा । न तावदप्रमाणात्तस्याकिंचित्करत्वात् । अथ प्रमाणात्तन्न । यतः सांवृतत्वाग्राहकं प्रमाणं सांवृतमसांवृतं वा स्यात् । यदि सावृतं, कथं
तस्मादपारमार्थिकस्य सकलप्रमाणफलव्यवहारसांवृतस्य सिद्धिः । तथा २० च पारमार्थिक एव समस्तोऽपि प्रमाणफलव्यवहारः प्राप्त इति ।
अथ प्रमाणफलसांवृतत्वग्राहकं प्रमाणं स्वयमसांवृतमिष्यते तर्हि क्षीणा सकलप्रपाणफलव्यवहारसांवृतत्वप्रतिज्ञा । अनेनैव व्यभिचारात् । तदेवं सांवृतसकलप्रमाणफलव्यवहारवादिनो व्यक्त एव परमार्थत
स्वाभिमतसिद्धिविरोध इति ॥ २१ ॥ २५.. प्रस्तुतमेवार्थ निगमयन्नाह -