________________
परि. ६ . १९] स्याद्वादरत्नाकरसहितः
१००१ निवृत्तिज्ञानमेव न च तदेव तस्यैव कार्य युक्तं विरोधादतः कथमस्याः प्रमाणफलत्वं स्यादिति चेत् । तदपि स्याद्वादन्यायानभिज्ञभाषितम् । अज्ञाननिवृत्तेः स्वार्थव्यवसायपरिणतिलक्षणायाः स्वार्थग्रहणव्यापारलक्षणोपयोगरूपप्रमाणेन कार्यत्वाविरोधात्, साधकतमांशस्येतरांशात्, कथंचिद्भेदप्रतिपादनात् । किं च धर्मरूपतां धर्मिरूपतां वा प्रति. ५ ज्ञायाज्ञाननिवृत्तिज्ञानमेवेति प्रतिज्ञायेत । यदि धर्मरूपतां तबज्ञाननिवृत्तेधर्मस्वभावयोः स्वर्मिणोर्ज्ञानात्कथंचिद्भेदो दुष्प्रतिषेधः । न हि सर्वथाप्यभेदे धर्मधर्मभावः संगच्छते । तस्मादज्ञाननिवृत्तिर्ज्ञानमेवेति प्रतिज्ञा क्षीणा । अथ धर्मिरूपतां तत्रापि किमपेक्षाज्ञाननिवृत्तेर्मित्वं परिकल्प्येत ज्ञानापेक्षया धर्मान्तरापेक्षया वा । प्रथम- १० पक्षे तन्निवृत्तेर्धमित्वम् । ज्ञानम्य तु धर्मत्वमिति वैपरीत्यमायातम् । न चैतद्युक्तम् । तस्यास्तदाश्रितत्वात् । यदाश्रितं न तस्य स्वाश्रयापेक्षयैव धमित्वं यथा रूपादेः । ज्ञानाश्रिता चाज्ञाननिवृत्तिरिति । अथ धर्मान्तरापेक्षया तदाज्ञानापेक्षया किमस्याः स्यात् । धर्मरूपता चेत् , कथमेवं ज्ञानमेवाज्ञाननिवृत्तिरित्यभेदाभिधानं १५ युज्यते । ज्ञानस्याज्ञाननिवृत्तिधर्म इति भेदाभिधानस्योपपन्नत्वात् । तथा च ज्ञानमेवाज्ञाननिवृत्तिरिति दुर्घटम् । यदप्यभिहितं विशेषणज्ञानं फलमित्यादि तदप्यपेशलम् । विशेषणविशेव्ययोविभिन्नज्ञानालम्बनत्वाभावात् । एकमेव हि ज्ञानं तदालम्बनम् । न हि शुक्लः पटो दण्डी पुरुष इत्यादी विशेषणविशेष्ययोनिभेदो २० न श्रूयते । न च विषयभेदादवश्यं ज्ञानभेदः पञ्चाङ्गुलादेर्विषयस्य समानेन्द्रियग्राह्यस्य योग्यदेशावस्थितस्यानेकस्याप्येकज्ञानालम्बनत्वात् । कथमन्यथा सदसद्धर्मः कस्यचिदेकज्ञानालम्बनमनेकत्वात् , पञ्चाङ्गुलवत्, इत्यत्र प्रयोगे पञ्चाङ्गुलस्य दृष्टान्तत्वेनोपादानं स्यात् । कथं वाऽवयविनः सिद्धिरू धोमध्यभागानामप्येकज्ञानावलम्बनत्वाभावप्रसङ्गत- २५ स्तव्यापित्वेनास्य सिद्धयनुपपत्तेः । यापि विशेषेणाक्षसन्निकर्षादिलक्षण