________________
१०००
प्रमाणनयतत्त्वालोकालङ्कारः
एकमेकान्ततो भेदं प्रमाणफळयोर्जगुः || योगास्तमथ सन्न्यायादुपयन्त मनीषिणः ॥ ७०१ ॥
[ परि. ६ सु. १९
तथा हि यत्तावत्प्रमाणमित्याद्यवादि तत्र प्रत्यभिज्ञानबाधः पक्षस्य प्रमाणात्कथंचिदभिन्नस्य तत्फलस्याज्ञाननिवृत्त्यादेः प्रत्यभि५ ज्ञानेन प्रतीयमानत्वात् । योऽहं पदार्थं प्रमिणोमि स एव निवृत्ताज्ञानस्तमुपाददे परित्यजाम्युपेक्षे चेति हि प्रतिप्राणि प्रतीयते । अनुमानबाधश्च । तथा हि-फलं प्रमाणात्कथंचिदेव भिन्नं तत्कार्यत्वा-' न्यथानुपपत्तेः । ज्ञानं हि स्वकारणकलापादुपजायमानं स्वार्थग्रहणव्यापारलक्षणोपयोगरूपं सदज्ञाननिवृत्त्यादिरूपतया परिणमत इतीत्थं १० : कथंचिदेव भेदे प्रमाणफलयोः कार्यकारणभावो घटते | कारकत्वाख्यो हेतुश्च प्रदीपात्मना व्यभिचारी । प्रदीपः स्वात्मनात्मानं प्रकाशयतीत्यत्र प्रदीपात्मनः कारकत्वेऽपि प्रकाशरूपाभिन्नफलकारित्वप्रतीतेः । न खलु प्रदीपात्मनः प्रकाशो भिन्नस्तस्याप्रकाशत्वप्रसङ्गात्, पटवत् । प्रदीपात्मनो भिन्नस्यापि प्रकाशस्य प्रदीपात्मनि १५ समवायात्प्रकाशतासिद्धिरिति चेत् । मैवम् । अप्रदीपात्मन्यपि घटादौ तत्समवायानुषङ्गात् । प्रत्यासत्तिविशेषात्प्रकाशस्य प्रदीपात्मन्येव समवायो नान्यत्रेति चेत् । स कोऽन्योऽन्यत्र कथंचित्तादात्म्यात् ॥ दृष्टान्तस्य च साध्यविकलत्वं कुठारादेरप्येकान्तव्यतिरिक्तक्रियाकारित्वासिद्धेः । कुठारादिना हि काष्ठादेछिदानिरूप्यमाणा छेदाप्रदेशानु२० प्रवेशलक्षणैवावतिष्ठते । स चानुप्रवेशः कुठारादेरात्मगतधर्मोऽनर्थन्तरम् । एवं करणत्वानुमानेऽपि पक्षहेतुदृष्टान्तदोषा वाच्याः । यज्च्चो
—
क्तम्- न ह्येकस्यैकदा स्वात्मापेक्षया करणरूपता फलरूपता च
茹
श्रेयसी' इत्यादि । तदप्यसत्यम् । एकस्याप्यपेक्षाभेदादने ककार करूपतोपपत्तेर्यथा वृक्षस्तिष्ठति वृक्षेण कृतं वृक्षादपेतं वृक्षं पश्येत्यादौ । एवं २५ प्रमाणस्यैकस्यापि साधकतमत्वापेक्षयाऽज्ञाननिवृत्त्यादिस्वभावापेक्षया च प्रमाणरूपता फलरूपता च न विरोधमध्यास्ते । ननु चाज्ञान