________________
परि. ६ सू. १९] . स्याद्वादरत्नाकरसहितः तादात्म्ये सिध्यत्यतिप्रसक्तेः । ( ननु प्रमाणस्यासारूप्ब )व्यावृत्तिः सारूप्यमनधिगतिव्यावृत्तिरिति व्यावृत्तिभेदादेकस्यापि प्रमाणफलव्यवस्थेति चेत् । नैवम् । स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदस्याप्यनुपपत्तेः । कथं च दर्शनस्याप्रमाणफलव्यावृत्या प्रमाणफलव्यवस्थावत्प्रमाणान्तरफलान्तरव्यावृत्त्याऽप्रमाणत्वस्याफलत्वस्य च व्यवस्था न स्यादिति॥१६॥ ५
अथ प्रसंगतः कर्तुरपि सकाशात्प्रकृतफलस्य भेदं समर्थयमानः प्राहप्रमातुरपि स्वपरव्यवसितिक्रियायाः कथंचिद्भेद
इति ॥ १७॥ प्रमातुरात्मनः किं पुनः प्रमाणादित्यपिशब्दार्थः ॥ १७ ॥
स्वपरव्यवसितिक्रियाया अज्ञाननिवृत्त्याख्यफलस्वभावायाः कथं- १. चिद्वक्ष्यमाण..... .... .... ....( अत्र हेतुमाहुःकर्तृक्रिययोः साध्यसाधकभावेनोपलम्भादिति ॥१८॥
ये साध्यसाधकभावेनोपलभ्येते ते अन्योन्यं भिन्ने । यथा देवदत्तदारुच्छिदिक्रिये साध्यसाधकभावेनोपलभ्येते च प्रमातृस्वपरव्यवसितिक्रिये इत्यर्थः ॥ १८ ॥ , हेल्वसिद्धिपरिहारार्थमाह--- कर्ता हि साधकः स्वतन्त्रत्वात्, क्रिया तु साध्या
कर्तृनिर्वर्त्यवादिति ॥ १९॥ . स्वमात्मा ).... तन्त्रं प्रधानमस्येति स्वतन्त्रो यः क्रियायां स्वतन्त्रः स साधको यथा वृक्षच्छेदक्रियायां व्रश्चनः । स्वतन्त्रश्च स्वपरव्यवसिति- २०. - क्रियायां प्रमातेति स्वतन्त्र( त्वं कर्तुः कुतः सिद्धमिति चेत् । क्रियासिद्धावपरायत्ततया प्राधान्येन विवक्षितत्वात् । स्वपरव्यवसितिल) क्षणा क्रिया पुनः साध्या कर्तृनिवर्त्यत्वात् । या खलु कर्तृनिर्वा क्रिया सा साध्याते व्यवहारः। .... .... ...... .... ....