________________
૨૮
५
प्रमाणनयतत्वालोकालङ्कारः
कथंचित्तस्यापि प्रमाणाद्भेदेन व्यवस्थानादिति ॥ १३ ॥
कथंचिदिति वक्ष्यमाणेन प्रकारेण ) रूपस्य साक्षात्फलस्य न केवलमुपादानवुद्ध्यादेव्र्व्यवहितफलस्येत्यपिशब्दार्थः ॥ १३ ॥
[ परि. ६ सू. १३
****
एवं व्यवस्थानमपि कुतः सिद्धमित्याह---
साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वादिति ॥ १४ ॥
यमान आह
ये हि साध्यसाधनभावेन प्रतीयेते परस्परं भिद्येते यथा कुठारच्छिदे । साध्यसाधनभावेन प्रतीयेते च प्रमाणाज्ञाननिवृत्त्याख्यफले ॥ १४ ॥ १०. अस्यैव हेतोरसिद्धतां पराजिहीर्षुः प्रमाणस्य साधनत्यं तावत्समर्थ
--
प्रमाणं हि करणाख्यं साधनं स्वपरव्यवसितो साधक्तमत्वादिति ॥ १५ ॥
यत्खलु क्रियायां साधकतमं तत्करणाख्यं साधनं, यथा परश्वधः १५ साधकतमं च परव्यवसितौ प्रमाणमिति ॥ १५ ॥
अथ फलस्य साध्यत्वं समर्थयन्ते
स्वपरव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं तु. साध्यं प्रमाणनिष्पाद्यत्वादिति ॥ १६ ॥
यत्प्रमाणनिष्पाद्यं
तत्साध्यं यथोपादानबुद्धयादिकं प्रमाण
२० निष्पाद्यं च प्रकृतं फलमिति । तन्न प्रमाणादेकान्तेन फलस्याभेदः साधीयान् । सर्वथा तादात्म्ये हि प्रमाणफलयोने व्यवस्था तद्भाव-विरोधात् । न हि सारूप्यमस्य प्रमाणमधिगतिः फलमिति सर्वथा
I