________________
परि. ६ स्. १३] स्याद्वादरत्नाकरसहितः ___ यस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः ॥९॥
एतदेव भावयन्नाह---- यः प्रमिमीते स एवोपादत्ते परित्यजत्युपेक्षते चेति सर्वसंव्यवहारिभिरस्खलितमनुभवादिति ॥ १०॥ ५ - न खल्वन्यः प्रमाता प्रमाणपर्यायतया परिणमतेऽपरश्योपादानहानोपेक्षाबुद्धिपर्यायस्वभावतयेति कस्यापि सचेतसोऽनुभवः समस्तीत्यर्थः
यथोक्तार्थानभ्युपगमे दूषणमाह-- इतरथा स्वपरयोः प्रमाणफलव्यवस्था विप्लवः प्रस- १०
ज्येतेति ॥ ११॥ इतरथेत्येकस्यैव प्रमातुः प्रमाणफलसम्बन्धित्वानङ्गीकार इमे प्रमाणफले स्वकीये इमे च परकीये इति नैयत्यं न स्यादिति भावः । तदित्थमुपादानबुद्धयादी व्यवहितफले प्रमाणादभेदस्यापि प्रसिद्धन तेन प्रकृतहेतोर्व्यभिचार इति सिद्धम् ॥ ११॥ ___ अथ व्यभिचारान्तरं निराचिकीर्षुराह--
अज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्नेन साक्षास्फलेन साधनस्यानेकान्त इति नाशङ्कनीयमिति
॥१२॥ प्रमाणफलं च स्यात्प्रमाणात्, सर्वथाप्यभिन्नं च स्याद्यथाज्ञान- २० निवृत्तिरित्यनयानैकान्तिकत्वं प्रकृतिहेतोरिति न शङ्कनीयं शाक्यशिष्यैः ॥१२॥
(कुत इत्याह-- १ एतच्चिद्वान्तर्गत रत्नाकर त्रुटितं रत्नाकरावतारिकायाः पूरितम् ।