Book Title: Siddh Hemchandra Vyakaranam
Author(s): Himanshuvijay
Publisher: Anandji Kalyanji Pedhi

View full book text
Previous | Next

Page 1014
________________ स्वोपज्ञवृत्तिसहितम् [८०९] न क-ग-च-जादि-षट्-शम्यन्त-सूत्रोक्तम् ।।४।३२४॥ पैशाच्यां 'क-ग-च-ज-त-द-प-य-वां प्रायो लुक्' (८-१-१७७ ) इत्यारभ्य 'षट्-शभी-शाव-सुधा-सप्तपर्णेप्वदुश्छेः' (८-१-२६५) इति यावद्यानि सूत्राणि तैर्यदुक्तं कार्य तन्न भवति ॥ मकरकेतू । सगर-पुत्त-वचनं । विजयसेनेन लपितं । मतनं । पापं । आयुधं । तेवरो॥ एवमन्यसूत्राणामप्युदाहरणानि द्रष्टव्यानि ।। ३२४ ॥ [अथ चूलिका पैशाचिक भाषा] चूलिका-पैशाचिके तृतीय-तुर्ययोराद्य-द्वितीयौ ।८।४ । ३२५। चूलिकापैशाचिके वर्गाणां तृतीयतुर्ययोः स्थाने आद्यद्वितीयो यथासंख्यौ भवतः ॥ नगरम् । आद्यद्वितीयौ नकरं ॥ मार्गणः । मक्कनो ॥ गिरि-तटम् । किरि--तटं ॥ मेघः । मेखो ॥ व्याघ्रः॥ वक्खो॥धर्मः । खम्मो॥राजा। राचा ॥ जर्जरम् चच्चरं ॥ जीमूतः । चीमूतो॥ निर्झरः । निच्छरो॥झर्झरः। छच्छरो॥ तडागम् । तटाकं॥ मण्डलम् मण्टलम् ॥ डमरुकः । टमरुको ॥ गाढम् । काठं ॥ षण्डः । सण्ठो ॥ ढक्का । ठका ॥ मदनः । मतनो॥ कन्दर्पः। कन्तप्पो ॥ दामोदरः। तामोतरो॥ मधुरम् । मथुरं ।। बान्धवः । पन्थवो ॥ धूली । थूली ॥ बालकः। पालको। रभसः। रफसो॥ रम्भा । रम्फा । भगवती । फकवती॥ नियोजितम् । नियोचित ॥ क्वचिल्लाक्षणिकस्यापि । पडिमा इत्यस्य स्थाने पटिमा । दाढा इत्यस्य स्थाने ताठा ॥३२५॥ रस्य लो वा । ८।४ । ३२६ । चलिकापैशाचिके रस्य स्थाने लो वा भवति ॥

Loading...

Page Navigation
1 ... 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054